पृष्ठम्:न्यायलीलावती.djvu/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
न्यायलीलावती


र्शाद्याश्रयः सिद्ध इति । स एवान्यन्त्र [१] कल्प्यते लाघवात् । पृथिवीत्वे तु रूपानुद्भवादिकल्पनागौरवमेव । व्यजनानिलश्च ग्राह्यजातीयासाधारणगुणोद्भवापेक्षः स्पर्शव्यञ्जकः सावयवेन्द्रियव्यव-


न्यायलीलावतीकष्टाभरणम्

पग्रहः । स एवेति । त्वगिन्द्रिय प्रकृति द्रव्यान्तर चेत् सिद्धं तदा स्पर्शकम्पधृतिशब्दादिहेतुरपि तज्जातीय एव ग्राह्य इत्यर्थः । ननूक्तं धर्म्मिकल्पनातो धर्म्मकल्पनालघुरित्यत आह - पृथिवीत्व इति त्वगिन्द्रियस्य धर्म्यन्तरस्य कल्पनाया आवश्यकत्वात् अनुभूतरूपोद्भूतस्पर्शपृथिवीकल्पनमेव गुव्र्विवत्यर्थः । उद्भूतस्पर्शवत्वं वायोः साधयति- व्यजनानिल इति । ग्राह्यजातीयोऽसाधारणो यो गुणस्तदुद्भवापेक्षः सन् स्पर्शव्यञ्जक इत्यर्थः । सावयवेति । सावयवानीन्द्रियाणि घ्राणादि त्वक्पर्थ्यन्तानि तेषां व्यवस्थापका रूपरसगन्धस्पर्शास्तेषु मध्य इत्यर्थः । तथा च व्यजनानिलः स्वव्यञ्जनीय गुणवृत्तिजातिमदुद्भूत विशेषगुणवान् अनिन्द्रियत्वे सति गन्धाद्यन्यतरव्यञ्जकद्रव्यत्वात आलो-

न्यायलीलावतीप्रकाशः

मेनाने कत्वकल्पने प्रत्यक्षस्पर्शाश्रयत्वमपि तस्यैव कल्य्यत इत्यर्थः ।

 उद्भूतस्पर्शं वायुं साधयति-व्यजनेति । व्यजनचालनानन्तरोपलभ्यमानस्पर्शाधिकरणं स्वग्राह्योद्भूता साधारणगुणमात्र व्यङ्यव्यञ्जकमित्यर्थः । सावयवेति । रूपादिचतुर्ष्वित्यर्थः । नन्विन्द्रियेणानैकान्तिकं तस्य ग्राहासजातीयोद्भूतासाधारणगुणवत्त्वाभावात् । न चोद्भूतत्वेनानभिभूतत्वं विवक्षितं न चेदेवमित्यनेन विरोधात् । तद्रूपस्या-

न्यायलीलावतीप्रकाशविवृतिः

भिन्ना एव सन्त्वित्यत आह -- प्रत्यक्षेति । रूपाद्यनुद्भवकल्पना गौरवभिया सर्वेषामेव तादृशानां वायुत्वं कल्प्यत इत्यर्थः । साधयतीति । प्रमाणान्तरेणापीति शेषः । अनिलत्वमसिद्धमन्यथा स चेत्यग्रिमग्रन्थेन तत्साधनविरोधात् । आलोकदृष्टान्तासङ्गतिश्च तस्य स्पर्शव्यञ्जकत्वादित्यन्यथा प्रयोगमाह -- व्यजनेति[२] । अत्र चाङ्गसङ्गिसलिलाद्यन्यत्वेन


  1. स चान्यत्रापि ।
  2. व्यजनानिलस्य प्रागेवानिलत्वे सिद्धे तस्योद्भूतस्पर्शसाधनेनैवाभिमतसिद्धौ स चेत्यादिना स्पर्शस्य वायवीयत्व साधन मनर्थक मापयेतेत्यत आह -- व्यजनेत्यादि । इति दीधितिः ।