पृष्ठम्:न्यायलीलावती.djvu/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

नभिभूतत्वात् । मैवम् । इन्द्रियान्यत्वेन हेतुविशेषणात् । तथाप्युद्भूतेति साध्ये विशेषणं व्यर्थम् । अनुद्भूतेनापि तादृशेन स्पर्शेन सि ध्यता वायवीयत्वसिद्धेः । तादृशस्पर्शवायवीयत्वस्य च पूर्वानुमानादेव सिद्धेः । मैवम् । उद्भूतस्पर्शस्य वायवीयत्व सिद्ध्यर्थमस्याभिधानात् उद्भूतस्पर्शस्य वायवीयत्वस्योपाधित्वव्यावर्त्तनार्थत्वाच्च । न च ग्राह्यस्पर्शेन सिद्धसाधनं स्पर्शसाक्षात्कारासाधारणकारणत्वाश्र योद्भूतासाधारणगुणवत्त्वस्य साध्यत्वात् । ग्राह्यजातीयासाधारणगुणोद्भवानपेक्षस्य व्यञ्जकत्वे ग्रीष्मोष्मणोऽपि रूपव्यञ्जकतापत्तिरुद्भूतानिलस्पर्शानपेक्षस्य च त्वगिन्द्रियस्याङ्गसङ्गिस्वेदशैत्याभिव्य

न्यायलीलावती प्रकाशविबृतिः

पक्षतेति न तदादायार्थान्तरशङ्का । स्वग्राह्यः स्वग्राह्यजातीयः । उद्भूत असाधारणः स्वनिष्ठो यो गुणः तन्मात्रव्यङ्गयव्यञ्जमित्यर्थ: । तेन न व्यङ्गयस्यर्शेनार्थान्तरम् । न चासाधारणपदव्यर्थता मात्रपदं कदा चिदनुभ्दूतस्यापि व्यञ्जकत्वशङ्कानिरासाय । तथा च उद्भूतमात्रस्वनिष्ठ ग्राह्यजातीय गुणव्यञ्जकमित्यर्थः । एवं चाग्रे इन्द्रियेऽनैकान्तिकत्वशङ्कापि युज्यते, यथाश्रुते तद्विरोधात । उद्भूतगुणेति । उद्भूतस्पर्शवायवीयत्वसिद्धि प्रयोजनमपि गन्धाग्राह केन्द्रियत्वेनापार्थिवत्वसाधने इन्द्रियत्वावच्छिन्नसाध्यव्यापकस्योद्भूतगुणजातीयत्वस्य साधनव्यापकतयोपाधित्वशङ्कानिरास इत्यर्थः । न चेति । मूलोक्तसाध्य इति शेषः । यथोक्तसाध्ये तादृशगुणवत्त्वस्यैव साध्यतया न सिद्धसाधनमित्याशयेन तादृशसाध्ये पक्षधर्मताबललभ्यं साध्यमाहस्पर्शेति । एवं च नालोकदृष्टान्ते साध्यवैकल्यमिति ध्येयम् । स्पर्शपद् वहिरिन्द्रियव्यवस्थापकगुणपरमिति कश्चित् । उद्भूतत्वमनुद्भुतत्वाभाव इतिमतेन सामान्यगुणेनार्थान्तरवारणाय कारणताश्रयपर्यन्तं विशेषणम् । तत्राप्यसाधारणपदमदृष्टवदात्मसंयोगेनार्थान्तरवारणाय । द्वितीयमसाधारणपदं विशेषपरं तादूव्यसिद्धये मनोव्यावृत्त्यर्थमिति । न चैत्रमपि त्वचि व्यभिचारः वायुसमवेतत्वस्य साध्यस्य तत्रापि सत्त्वात् । न च घटादिस्पर्शे व्यभिचारः तस्य विषयत्वेन व्यञ्जकतया साधारणत्वात् । वायवीयेत्वे साध्ये व्यो-