पृष्ठम्:न्यायलीलावती.djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
न्यायलीलावती


स्थापक गुणेष्वेकस्यैव व्यञ्जकत्वात्, आलोकवत् न चेदेवं मेदस्विनां स्वेदिनामन्धकारे समस्त [रूपि] वस्त्ववभासापत्ति: [१] । अनुद् भूतस्पर्शानिलस्य च [२] शैत्याभिव्यञ्जकतापत्तिः। स च स्पर्शो वायवीयः स्पर्शासाधारणव्यञ्जकत्वात् स्वक्स्पर्शवदिति वा अपार्थिवत्वसिद्धिः, रूपरहितत्वाद्वा । एवं सति शीतत्वोष्णत्वे [३] अपि गुणौ [४]वायौ स्यातामिति चेन्न, तस्यानुद्भूतरूपत्वात् । न चात्राप्यनु-

न्याय लीलावतीकण्ठाभरणम्

कवदिस्यत्र तात्पर्य्यम् । अत्र विपक्षदण्डमाह - न चे(दि?)ति । यदि स्वव्यञ्जनीयगुणवृत्तिजातिमदुद्भुत विशेषगुणापेक्षा न स्यात्तदा मेदस्विस्वेदानुमितस्य उष्मणोऽपि रूपव्यञ्जकत्वं स्यादित्यर्थः । अनुद्भूतेति । स्तिमितस्यापि वायोरङ्गसङ्गिसलिलशैत्यव्यञ्जकतापत्तरित्य र्थः । तथा चोष्माण व्यजनापेक्षापि न स्यादिति भावः । स चेति । व्यजनचालनानन्तरमनुभूयमान इत्यर्थः । स्पर्शेति । स्पर्शाभिव्यञ्जकत्वादित्यर्थः । वाकार इन्द्रिय प्रकृतिद्रव्यान्तरसाधनापेक्षया | रूपरहितत्वाद्वेति । विवादपदं द्रव्यं न पृथिवी रूपरहितत्वादाकाशवदित्यर्थः । एवं सति शीतेति । अनुपलभ्यमानरूपाश्रयः स्पर्शो यदि वायवीय इत्यर्थः । शीतोष्ण इति शीतोष्णस्पर्शावित्यर्थः । तस्येति । शीतोष्णस्पर्शाधिकरणद्रव्यस्येत्यर्थः । न चान्यत्रेति । विवादपदेऽपि द्रव्ये रूपमनु

न्यायलीलावतीप्रकाशः

ञ्जकत्वप्रसङ्ग इत्याह-- -न देवमिति । स्पर्शेति। मनोव्यावृत्त्यर्थमसाधा रणत्वं व्यञ्जकविशेषणम् । अपार्थित्वसिद्धिः प्रकृतस्पर्शाक्ष्रयस्येति शेषः । अत्रैव हेत्वन्तरमाह - रूपेति । नन्वेवं नीरूपत्वाद्विभक्त्तावयवजलतेजसोरपि वायुत्वापत्तिरित्याह - एवमिति । नीरूपत्वं तस्यासिद्धमित्याह -- तस्येति । न चेति । रूपस्येति शेषः ।

न्यायलीलावतीप्रकृतस्पशविवृतिः

भादौ व्यभिचारादाह - अत्रैवेति । अपार्थिवत्वे साध्ये इत्यर्थः ।


  1. भासः स्यात् ।
  2. ०लस्य तु शै०
  3. शीतोष्णत्वे ।
  4. गुणौ इति कचित्र पुस्तके नास्ति ।