पृष्ठम्:न्यायलीलावती.djvu/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


भ्दवः पार्थिवरूपस्पर्शयोः समानयोगक्षेमत्वात् । अन्यथा उद्धृतरूपानुभूतस्पर्शस्यापि पार्थिवस्य सत्त्वापत्तेः । न चाभिभवः । मन्दालोके उपलम्भापत्ते: । अगन्धवत्चाच्च [१] । अनुद्भूतत्वात् त सिद्धिरिति नवाच्यम्, स्पर्शोद्भवव्याप्तत्वाद्गन्धवस्वोद्भवस्य ।


न्वायलालावतीकण्ठावरणम्

दूभूतं स्वीक्रियतां तथा च तत् पृथिव्येवेत्यर्थः । पार्थिवेति । उद्भूनस्पर्शपृथिव्या उद्भूतरूपवत्त्वनियमादित्यर्थः । अन्यथेति तथा च चन्द्रचामीकरादिरपि पृथिव्येव स्यात् स्याञ्च मणिप्रभापि पृथिवीत्यर्थः । धूमस्य च क्षुरवच्छेदेन स्पर्शोऽप्युपलभ्यत एवेत्यर्थः । ननु वायुरप्युभूतरूप एव परन्त्विति भवान्नोपलभत इत्याशङ्कयाह न चेति । मन्देति । बलवत एव तेजोरूपस्य पररूपाभिभावकत्वादित्यर्थः । अपार्थिवत्वे साध्ये हेत्वन्तरमाह-अगन्धत्वाञ्चेति । हेतोः स्वरूपासिद्धिमाशङ्कयाह–अनुद्भूतत्वादिति । वायावनुभूतो गन्ध इति नोपलभ्यत इत्यर्थः । स्पर्शश्चेदुद्भूतस्तदा गन्धोऽपि उद्भूत एव तत्र स्यादिव्याह - स्पर्शेति । स्पर्शोद्भवो व्याप्तो यस्येत्यर्थः । स्पर्शोद्भवव्याप-

न्यालालावतीप्रकाशः

मन्देति । अभिभावकबलवत्तेजोरूपस्य तत्राभावादित्यर्थः । स्पर्शोद्भवेति । नन्वेंवं गन्धोद्भवो व्याप्यः स्पर्शोद्भवो व्यापक इति सिद्धावप्रकृतत्वम् । मैवम्। समव्याप्तत्वमभिप्रेत्यास्याभिधानात् गन्धोद्भवव्यापकत्वस्यापि सिद्धेः । स्पर्शोद्भवो व्याप्तो येनासौ स्पर्शोद्भवव्याप्तः, आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपात इत्यन्ये । स्पर्शोद्भवव्यापकत्वादिति पाठे सुगममेव । पार्थिवत्वेन विशेषणान्न जलादिस्पर्शेनानैकान्तः, तथापि वज्र स्पर्शेनानैकान्तः तस्य गन्धानुद्भवेऽप्युद्भुतत्वादिति न वाच्यम्, वायुत्वं यद्यकठिनोद्भूतस्पर्श पृथिवीवृत्तिजातिः स्यादुद्भूतगन्धस-

न्यायलीलावतीप्रकाशविवृतिः

हेत्वन्तरं गन्धाग्राहकत्वापेक्षया । समव्याप्तत्वमिति । हेतुतायां च व्यापकत्वभागोऽविवक्षित एवेत्यर्थः । चम्पकगन्ध [२] व्यभिचारान्न समव्याप्तिरित्यस्वरसादाह - स्पर्शोद्भव इति । वायुत्वमिति । वज्रत्वे [३] व्य-


  1. अगन्धत्वाञ्चेति कण्ठाभरणसम्मत पाठ ।
  2. चम्पकभागव्यभि० ।
  3. रक्तत्वे व्य० ।