पृष्ठम्:न्यायलीलावती.djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
न्यायलीलावती


कश्चिदेव स्पर्श: तथा, न सर्व इति चेन्न, दृश्यादृश्योपाधिव्युदासे व्यतिरेकशङ्कानवकाशात् । अनभिव्यक्तत्वात्कुङ्कुमगन्धवत् पूर्व नावभासते, चम्पकादिगन्धसम्भेदे त्ववभासत इति चेन्न, व्यञ्जकगन्धातिरिक्तगन्धानवभासात् । चन्दन गन्धिसलिल( मिति ) बदौपाधिकत्वेनैव प्रतीतेश्च । न चायं ज्वलनवदुर्द्धगममनशीलो वात्यादौ शुकशुकादिनादविसदृशमेघसङ्घट्टजातीय-

न्यायलीलावतीकण्ठाभरणम्

कत्वादिति तु पाठः सुगमः । पाषाणादावप्युद्भुत एव गन्धोऽनुल्बनत्वाद्विशिष्य न गृह्यत इति भावः । अनुद्भूतः पृथिवीस्पर्श उद्भूतगन्धसामानाधिकरण्यनियत उद्भूतपृथिवीम्पर्शत्वादित्यत्र स्पर्शभेद उपाधि: स्यादिति शङ्कते - कक्ष्चिदिति । दृश्यादृश्य इति । सामान्यव्याप्तौ विशेषस्थानुपाधित्वादित्यर्थः । कुङ्कुमगन्धवदिति यथा घृतसंयोगव्यङ्गयः कुङ्कुमगन्धस्तथा चम्पकादिसन्निकर्षाभिव्यङ्गयो वायुगन्धोऽपीत्यर्थ । घृतगन्धविजानीयकुङ्कुमगन्धवत् चम्पका दिगन्धविजा- तीयवायुंगन्धस्यानुपलम्भान्नैवमित्याह-व्यञ्केति । ननु वाय्वादावुद्गमनशीलं द्रव्यान्तरं स्यात् पृथिव्यादिसकलवधम्यीदित्यत आह---- न चायमिति । शुकशुकादीति वायुजन्यशब्दानुकरणम् । तथा च मेघयोः

न्यायलीलावतीप्रकाशः

मानाधिकरणं स्यात् धूमत्ववदित्यापादनार्थत्वात् । अगन्धत्वं वायोरसिद्धं व्यञ्जकाभावात्मतोऽपि गन्धस्याप्रतीतिरित्याह- अनभिव्यक्तत्वादिति । ननु वायोर्नियमेन तिर्यग्गतित्वाद् वात्यादा वुद्गमनस्वभावं द्रव्यान्तरं कल्पयेतेत्यत आह --न चेति । संघट्टपदादग्रे जन्यपदं

न्यायलीलावतीप्रकाशविवृतिः

भिचार इत्यकाठनपदम् । घ्राणत्वं व्यभिचार इत्युभूतपदम् । जलत्वे व्यभिचार हति पृथिवीति । विरुद्धगन्धवदारब्धमात्रधर्मे व्यभिचार इति जातिपदम् । उद्भूतपदमापाद्ये इष्टापत्तिवारणाय । तदाश्रये व्यभिचारवारणाय धर्मिपक्षत्वत्याग इति ध्येयम् । ज न्यपदमिति । यद्यपि शंषपिक्षया लक्षणैव बलवतीति संघट्ट-