पृष्ठम्:न्यायलीलावती.djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
न्यायला लावतीकण्ठाभरण-सविवृतिप्रकाशांद्भासिता


वात्याघातशब्दानुमाने अवश्योन्नेयपरस्पराहतरेवोद्गमनोपपत्तौ स्वभाव कल्पना नवकाशात् ॥ वायुः । ( इत्यनिलः) ॥


न्यायलीलावतकण्ठाभरणम्

सङ्घहो वायुजन्यम्तज्जन्यः शब्दोऽनुभूयते, तेन तदनुमिनमेघद्रयसङ्घट्ट कारणवायुद्वयसङ्घट्टोऽप्यनुमीयतं, तेन स्पर्शवद्वेगवद्रव्यद्वयसङ्घट्टात् तयोरुध्द्वगमनमागन्तुकानामत्ताधीनं न म्वाभाविकं स्तम्भितजलयारिवेति न तदनुरोधन वायुविजातीय द्रव्य कल्पनमित्यर्थः ।

 ननु उद्भूतस्पर्शवत्त्वाद्वायुः प्रत्यक्ष एव किं न स्यात् ? न स्यात्, उद्भतरूपवत्वस्योपाधित्वात् । आन्मान गुणादौ च साध्याव्यापकमिदमिति चन्न साधनावच्छिन्न साध्यव्यापकत्वात् । चाक्षुषद्रव्यप्रत्यक्षे नत् तन्त्रं न तु स्पार्शनप्रत्यक्षेऽपीति चेन्न सामान्ये बाधकाभावात् । किं च वायोः प्रत्यक्षत्वे नद्गतसङ्खयादिग्रहप्रसङ्गः । ननु यज्जातीय प्रत्यक्षं तत्सङ्खयादिक प्रत्यक्षमिति यदि नियमम्तदा फुन्कारादी तदस्त्येव । अथ या व्यक्तिः प्रत्यक्षा तत्त्सङ्खयादिकं प्रत्यक्षामति तु नियमो नास्त्येव पृष्ठलग्नवस्त्रादौ व्यभिचारादिति चेन्न फुत्कारादौ संङ्ख्याप्रतीतेरानुमानिकत्वात् । किं च वाहर्द्रव्यप्रत्यक्षतावच्छेदकमुद्भूतरूपवत्वं तदितो व्यावर्त्तमानं प्रत्यक्षत्वमेव निवर्त्तयात न ह्यद्भूतस्पर्शवत्त्वं तत्र तन्त्रं चन्द्रमहसि तदभावात् । नापि जन्येन्द्रियग्राह्य विशेषगुणवत्त्वं कार्य महत्त्व समानाधिकरणोद्भूत विशेषगुणवत्वं

न्यायलीलावतीप्रकाशः

पूरणीयम् । अत्र स्पर्शत्वं रूणनाधारवृत्तिवृत्ति रूपवदिन्द्रियावेद्यगुणवृत्तिजानित्वात् बुद्धित्ववदित्यनुमानं वायौ स्पशांदिचतुष्कबत्वे मानमाहुः ।

न्यायलीलावती प्रकाशविवृतिः

पदे जन्यलक्षणैवोचिता तथापि नात्र जन्यमात्रे लक्षणा, किं तु सङ्घविशिष्ट इति गौरवं मनसि कृत्येदमुक्तम् । मिश्रास्तु ग्रथस्य परार्थानुमानरूपतया वादिवाक्ये लक्षणाया अभावादिदमुक्त्तम् । न च वादिवाक्ये पूरणमयुक्तं पूरितप्रयोग एव कर्त्तव्य इति तात्पर्यादिति वदन्ति । रूपवदिति । गन्धत्वे व्यभिचार इत्यवेद्यान्तम् ।