पृष्ठम्:न्यायलीलावती.djvu/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

वा, वायूपनीतसुरभिभागस्य प्रत्यक्षतापत्तेः । उद्भूतस्पर्शवत्त्वस्य तन्त्रत्वे चलत्पक्षिकाण्डादावानुमानिकमपि कर्म्मज्ञानं न स्यात् तल्लिङ्गस्य पूर्वोत्तरदेशविभागसंयोगलक्षणस्य देशाप्रत्यक्षत्वेनाप्र त्यक्षत्वात् । तथा चानुभूतस्पर्शस्य चान्द्रमहस एव तत्र प्रत्यक्षक्षत्वमुपेयम्, तत्संयोग विभागाभ्यामेव तत्र चलतीतिप्रतीतेः उद्भूत रूपवत्त्वमुद्भूतस्पर्शवत्त्वं च द्वयमपि तत्र तन्त्रम् । तथा च चान्द्रनेजो न प्रत्यक्षमिति टीकाकृत: [१] । नन्वेयं शीतो वायुरिति प्रतीतिः कथं स्यात् वायुलिङ्गम्यानुष्णाशीतस्याग्रहादिनि चेन्न शीतद्रव्योपनायकत्वेनानुमिते द्रव्ये शीतस्पर्शारोपात् । न चान्योऽन्याश्रयः प्रथमं शीतस्पर्शग्रहोऽनन्तरं तदाश्रयोपनायकद्रव्यानुमानमनन्तरं तत्र शीतस्पर्शारोपात् । शीतस्पर्श एव वायुलिङ्गत्वारोपस्तर्हि त्वगि न्द्रियव्यापारानुविधानं कथमिति चेत् स्पर्शलिङ्गग्रहार्थमिति ग्रन्थव्याख्यायामनुपयुक्तत्वादत्रोपरम्यते ।

न्यायलीलावतीप्रकाशः

 ननु घ्राणादीनि न पृथिवीत्वाद्याश्रया इति न नवैव द्रव्या-

न्यायलीलावतीप्रकाशविवृतिः

आत्मत्वे व्यभिचार इति गुणेति । ननु गुरुत्वत्वादिजातौ व्यभिचारः न च नीरूपेन्द्रिय वेद्यत्वं गुणविशेषणं गुणपदमेव वा विशेषणपरमिति वाच्यम् तथाप्युष्णत्वजातौ व्यभिचारादिति चेत्, मैवम् । गुणत्व साक्षाद्याप्यजातेरेव जातिपदेनोक्तत्वात् ।

 केचित्तु पार्थिवेति साध्ये रूपविशेषणमतो मोष्णत्वादौ व्यभि चार इति वदन्ति । तन्न । तथा सति जलादिना सिद्धसाधनेन वायुसियनपत्तेः । अत्र साधनावच्छिन्नसाध्यव्यापकस्य विभुवृत्तिवृत्तित्वस्योपाधितायां स्पर्शादिचतुष्कस्य विपक्षबाधकार्थमनुसरणीयतायां किमनेनेत्यनुरायमाविष्करोतीत्याहुरिति । ननु बाहिरिन्द्रियत्वं यदि मनोभिन्नेन्द्रियत्वं तदा मनसोऽपि भिद्यत इत्यग्रेतनं व्यर्थमयुक्तमापघेत । मनोभेदस्य पक्षतावच्छेकतया पूर्वानुमानविषयत्वात् पक्षतावच्छे-


  1. तात्पर्थ्यटीकाकृतो वाचस्पतिमिश्राः ।