पृष्ठम्:न्यायलीलावती.djvu/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
न्यायलालीवतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता

 ननु बहिरिन्द्रियाणीतरेभ्यो भिघन्ते इन्द्रियत्वान्मनोवत् । मनसोऽपि भिद्यन्ते अनात्मगुणग्राहकेन्द्रियत्वात् घ्राण पार्थिवं


न्यायलीलावतीकण्ठाभरणम्

 पुनर्विभागव्याघाताय शङ्कते - नन्विति । विशेषगुणवदिन्द्रियत्वं बहिरिन्द्रियत्वम् । इतरेभ्य इति । मनोभिन्नद्रव्येभ्यः । अनात्मगुणेति । आ-

न्यायलीलावतीप्रकाशः

णीति साधयनि- नन्विति । वहिरिन्द्रियत्वं विशेषगुणवदिन्द्रियत्वम् । इन्द्रियत्वं च स्मृत्यजनक ज्ञानकारणमनः सयोगाश्रयत्वम् [१] । 'इतरेभ्यो' भूतेभ्यः । कालादिभेदस्योभयसिद्धत्वात् । अनात्मेति । आत्म-

न्यायलीलावतीप्रकाश विवृतिः

दकसाध्ययोरभेदाच्चेति अन्यथा व्याचष्टे - विशेषेति । स्मृतीति । आत्मन्यप्तिराह - स्मृत्यजनकेति संयोगविशेषणम् । अजनकत्वं च स्वरूपायोग्यत्वमतो न संयोगव्यक्तिविशेषमादायु उक्तातिव्याप्तितादवस्थ्यम् । कालादावतिव्याप्तिवारणाय ज्ञानकारणेति । चक्षुःसयोगादिकमादाय घटेऽतिव्याप्तिवारणाय मन इति । मनःसंयोगाश्रयत्वं च मनोनिरूपितसंयोगाश्रयत्वं न तु मनोविशिष्टसंयोगाश्रयत्वमतो न मनस्यव्यांप्तिः । न चेन्द्रियत्वे ज्ञाते इन्द्रियमनोयोगत्वेन कारणताग्रहः, गृहीतायां च संयोगकारणतायामिन्द्रियत्वग्रह इत्यन्योन्याश्रय इति वाच्यम्, चक्षुर्मनोयोगत्वादिनैव कारणताग्रहात् । त्वचो ज्ञानमात्रजनकत्वेऽपि न त्वङ्मनोयोगस्य तथात्वं मानाभावादिति नानुपपत्तिः । ज्ञानपदं च विद्यापरमतो न स्वप्नवहनाड्यामतिव्याप्तिः । पक्षतावच्छेदकावच्छेदेनेतरभेदसाधने मनसि दृष्टान्ते साध्यवैकल्यमत आह-- भूतेभ्य इति । नन्वेवं कालादिभ्योऽविवेकतादवस्थ्यमत आह—कालादीति ।


  1. स्मृत्यजनकः स्मृतिस्वरूपायोग्यः । मनः संयोगो मनोवृत्तिसंयोगः । त्वङ्गन संयोगो न ज्ञानमात्रे हेतुरितिमतेनेदम् । तस्य तद्धेतुतामते तु आत्मवारणाय स्मृत्यजनकेति संयोगस्या श्रयस्य वा विशेषणम् । आद्ये सामानाधिकरण्येन द्वितीये च समवायित्वेन स्मृतिजनकत्वस्याभावो- ऽर्थ । ज्ञानासमानाधिकरणज्ञान कारणमनः संयोगाश्रयत्वमिति फलितार्थः । आप्यादिदेहसाधारणशरीत्वत्योपाधित्वात् त्वक्त्वस्य च जातित्वाल्लाघवात् त्वङ्गन संयोग एवं ज्ञानहेतु । शरीरमन संयोगस्यापि तथात् स्मूजनके सामानाधिकरण्येन स्मृतिजनकमन संयोगस्यानाश्रये यस्तादृशः संयोगस्तद्वत्त्वं वक्तव्यम् । ज्ञानसमानाधिकरणज्ञान कारणसंयोगानाश्रय, वृत्तिमनोवृत्ति-