पृष्ठम्:न्यायलीलावती.djvu/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
न्यायलीलावती


स्यादिति चेन्न, महतः पार्थिवस्य गन्धरूपरसस्पर्शेषु अन्यतमो-


न्यायलीलावतीकण्ठाभरणम्

त्मगुणाग्राहकेन्द्रियत्वादित्यर्थः । इन्द्रियत्वेन वाऽनात्यगुणग्राहकत्वं वि वक्षितमतो न मनलि व्यभिचारः । महत इति । उद्भूतत्वमिह प्रत्यक्षं विवक्षितमन्यथा महन इति विशेषणानुपपत्तिः । पार्थिवपरमाणोरपि उद्भूतत्वसम्भवात् । यद्वा घ्राणस्यैव परमाणुरूपताऽभ्युपगमो नास्तीतिसूचनाय महत इति । ननु घ्राणेऽप्यन्यतरदुद्भूतं स्या-

न्यायलीलावतीप्रकाशः

गुणग्राहकत्वादित्यर्थः । यथाश्रुतस्य मनसि गतत्वान् । इन्द्रियत्ववि वक्षायां चासाधारणत्वापत्तेः । न चाप्रयोजकत्वं आत्मगुणग्राहकत्वे मनस्त्वस्यैव तन्त्रत्वात् तथात्वे तद्ग्र्पत्तेः । यद्वा वहिरिन्द्रयत्वादि-

न्यायलीलावतीप्रकाशविवृतिः

न च सिद्धसाधनपरिहाराभिप्रायेणैव भूतेम्य इति फक्किका किमिति न व्याख्यायत इति वाच्यम्, इतरत्वावच्छिन्न प्रतियोगिक भेदस्यासिद्धतया सिद्धसाधनानवकाशात् । अन्यथा यत्कििञ्चद्भस्य सर्वसिद्धतयाऽन्यत्रापीतरभेदानुमाने सिद्धसाधनप्रसङ्गात्। वस्तुतोऽनिन्द्रियपरत्वेनैवेतरपदव्याख्या मूले युक्तेति ध्येयम् ।

 इन्द्रियत्वेति । इन्द्रियत्वेन ग्राहकत्वविवक्षायामित्यर्थः । न चेन्द्रियत्वस्य मूलेऽपि श्रयमाणत्वाद साधारण्यताद वस्थ्य मिति वाच्यम्, तद्विशेषणत्याग एव प्रकाशकृतस्तात्पर्यात् । प्रतियोगिविशेषणत्वेनाव्यर्थत्वाद्वा । यद्वेति । विशेषगुणवत्वादित्यर्थः । तेन मनोभिन्नत्वे [१]साध्याविशेषःगुणवदिन्द्रियपरत्वं च व्यर्थविशेष्यताऽसाधारण्यं चेत्यपास्तम् । विशेषगुणशून्यत्वा (शू?) न्यत्वलक्षणवैधर्मान्न मेदसाधनमप्रयोजकमिति भावः । ननु महत इति व्यर्थ परमाणावपि गन्धाद्यन्यतमोद्भवनिय-


ज्ञानकारण संयोगाश्रयत्वमिति तु'निष्कर्षः । अन्त्यज्ञानपदेन निर्विकल्पकं विवक्षितमतो न स्वप्नवहनाडयामतिप्रसङ्ग । प्राणात्मसंयोगवत् प्राणमनः संयोगोऽपि न ज्ञानकारणमिति मणौ व्यक्तम् । इति दीधितिः ।

  1. मनोभिन्नपरत्वे इति द्वीतीयपुस्तके पाठः ।