पृष्ठम्:न्यायलीलावती.djvu/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


दूभूतत्वेन व्याप्तत्वात् । तादृशस्य च प्रत्यक्षबाधितत्वात् । अन्यथा वायावपि पार्थिवस्पर्शस्यैव प्रतीतिप्रसङ्गात् गन्धस्यैव व्यञ्जकत्वात्तत्त्वमिति चेन्न, नवशरावादौ जलेऽपि तदर्शनात् ।


न्यायलीलावतीकण्ठाभरणम्

दित्यत आह - तादृशस्येति । योग्यस्येत्यर्थः । अन्यथेति । अनुभूतगन्धरसरूपोभूनस्पर्शा पृथिव्यव वायुः स्याद् यदि गन्धरसरूपान्यतरोदूद्भवनियमः पृथिव्या न स्यादित्यर्थः । ननु घ्राणं पार्थिव रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् कुङ्कुमगन्धाभिव्यञ्जकघृतवदिति शङ्कतेगन्धस्यैवेति । ननु नवशरावगन्धव्यञ्ज के हेतुरयं व्यभिचारीत्याह-नवेति । ननु नवशरावे जलं गन्धं नाभिव्यनक्ति किन्तूत्पादयतीति न तत्र

न्यायलीलावतीप्रकाशः

त्यर्थः । महत इत्युद्भूतगन्धादिविशिष्टपरमाणुभिग्न्यथासिद्धिवारणार्थः । अन्यथेति । उपाध्यभावऽपि व्याप्त्यमावे गन्धोद्भवव्याप्यः पार्थिवस्पर्शोद्भवोऽपि न स्यादिति वायुत्वाभिमते पार्थिव एव स्पर्शो भासत इत्यपि स्यादित्यर्थः । गन्धस्यैवेत्येवकारेण रसादिव्यञ्जकमनोनिरासः । व्यञ्जकत्वादिति । व्यञ्जकद्रव्यत्वादित्यर्थः । अन्यथा सान्नकर्षे व्यभिचारात् । 'तत्त्वं' पार्थिवत्वम्। दृष्टान्तश्चात्र वायूपनीतसुरभिभागो न तु कुङ्कुमगन्धाभिव्यञ्जकं घृतम्, तस्य स्वीयरूपादिव्यञ्जकत्वेन

न्याय लीलावती प्रकाश विवृतिः

मादत आह - महत इति । अयमर्थः - उद्भूतगन्धाद्यन्यतमवत्त्वे व्यापक इष्टापत्तिः ॥ न चानुपलम्भविरोध: घ्राणस्य परमाणुत्वस्वीकारेणैव तदुपपत्तेः । तथा चाणुत्राणस्वीकारेणैव नियमाऽन्यथासिद्ध इत्युदूभूतपदं प्रत्यक्षपरं वाच्यम् । तथा च परमाणोरेव व्यभिचार इति महत ( इति ? ) विशेषणमिति भावः । न चैव तन्मते आपादकासिद्धिः स्थूलावयवावच्छिन्नगन्धोपलब्ध्या महत्त्वस्यापि साधनीयत्वात् । ननु गन्धमाश्रव्यञ्जकत्वमप्रसिद्धं गन्धव्यञ्जकेन गन्धत्वस्यापि व्यञ्जनादत आह - रसादिव्यञ्ज केति । तथा च गन्धादिषु मध्ये गन्धमात्रव्यञ्जकद्रव्यत्वादिति हेतुरिति भावः । तस्य स्वीयेति । यद्यपि परकीय गन्धादिष्वित्यव श्यं वाच्यमन्यथा नवशराबादरित्यादरसङ्गत्यापत्तिः, तथा चद्मयु-