पृष्ठम्:न्यायलीलावती.djvu/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
न्यायलीलावती


जलं गन्धोत्पादकमिति चेन्न, कणभक्षमते आश्रयनाशं विना तद्नुपपत्ते: । तन्नष्टमिति चेन्न, तन्नाशहेतोर्घनद्रव्याभिघातस्याभावात् । स्पर्शस्थापि जलं व्यञ्जकमिति चेन्न, अनुष्णाशीतस्पर्शस्य पूर्वमप्युपलम्भात् । शीतस्पर्शस्य च भुवामसम्भ[१]-


न्यायलीलावतीकण्ठाभरणम्

व्यभिचार इत्याह – जलमिति । कणभक्षेति । वैशेषिकानामाश्रयनाशादेवाचयविगन्धादिनाशः, आश्रयनाशस्य च नवशरावस्यात्रानाशान्न तत्र पूर्वगन्धादिनाशो न च गन्धवति गन्धोत्पाद इत्यभिव्यञ्जकत्वमेव जलस्येत्यर्थः । तदिति । नवशरावमित्यर्थः । जलमात्रसंयोगस्य नाशकत्वेऽतिप्रसङ्ग्रः । घनद्रव्यस्य मुद्गदेः संयोगो विनाशकः स चात्र नास्तीत्यर्थः । ननु जलेन शरावे स्पर्शोऽपि व्यज्यते, तथा च गन्धमात्रव्यञ्जकत्वं न तत्रेति न व्यभिचार इत्याशङ्कत - स्पर्शस्येति ।

न्यायलीलावतीप्रकाशः

साधनवैकल्यात् । आश्रयनाशमिति । आश्रयो गन्धस्यावयवी तन्नाशे परं परमाणौ स्वतन्त्रे गन्धोत्पत्तिरित्यर्थः । क्वचित् पाठः "स्वाश्रयनाशमिति" | यद्यप्येतन्न परमाणुगन्धमधिकृत्य परमाणोर्नित्यत्वादवयविनश्चाश्रयस्य नाशे क्क गन्धोत्पत्तिः, तथापि स्वं परमाणो: स्वरूपमाश्रयो यस्यासौ परमाण्वाश्रयोऽवयवी तन्नाशं विना अवयविनाशे सत्येव परमाणौ स्वतन्त्रे गन्धोत्पत्तेः । घनद्रव्येति । यद्यपि स्थिरजलसंयोगस्यापि लोष्टनाशकत्वं दृष्टं तथापि तेजोवन विनाश्याविलक्षणमेव

न्यायलीलावतीप्रकाशविवृतिः

तम् । न च स्वीयरूपाव्यञ्जकजलविशेषपरत्वं तत्र जलपदस्येति वाच्यम्, तथा सति तादृशघृतविशेषस्य दृष्टान्ततापत्तेः । स्वरूपयोग्यता चोभयत्रापि तुल्या तथापि परकीयत्वविशेषणदानेऽपि जलस्य सक्तुरसव्यञ्जकतया वक्ष्यमाणव्यभिचारोऽसङ्गत एवेति आपाततो व्यभिचार प्रदर्शन परतयैवाग्रिमफक्किका योजनीयेति लाघवात्परकीयत्वविशेषणागर्भ एव हेतुरित्यभिसन्धायैतदुक्तम् । 'तेजोव'दिति


  1. भूमावसम्भ० ।