पृष्ठम्:न्यायलीलावती.djvu/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
न्यायलीलावती


रसनमपि नाप्यम् । इन्द्रियत्वेनाभौतिकत्वात् मनोवत् । न चेदेवं मनसोऽपि पार्थिवत्वापत्तिः । श्रोत्रं च न स्वगुणग्राहकम्, इन्द्रियत्वात् मनोवत् योग्यविशेषगुणशून्यत्वमत्रोपाधिरिति चेन्न, योग्यविशेषगुणशून्यत्वस्या [ प्य]त एवानुमानात् ।


न्याय लीलावतीकण्ठाभरणम्

पलम्भकघ्राणमात्रस्य निवृत्तिः स्थान्न तु व्राणमात्रस्येत्यर्थः । इन्द्रियत्वेनाभौतिक्रत्वादिति । रसनं नाप्यमभूतत्वात् अभूतत्वं च इन्द्रियत्वात् मनोवदिति नानार्थः । यद्वा इन्द्रियत्वादभूतत्वाच्चत्यनाप्य एव हेतुद्वयं तेन नासमर्थविशेषणत्वमसमर्थविशेष्यत्वं चति । अभौतिकत्वं चाभूतत्वमेव अन्यथा इष्टान्तस्य साधनवैकल्यं द्वितीयपक्षे, साध्यघैकल्यं वा प्रथमपक्षं स्यात् । न चेदेवमिति । आप्यवैधम्यै सत्यपि चेदाव्यत्वं तदा पृथिवीवैधर्भ्म्येऽपि मनसः पार्थिवत्वं स्यादित्यर्थः । श्रोत्रश्चेति । तथा च स्वगुणग्राहकत्वापत्त्या नभोभिन्न मेव श्रोत्रमित्यर्थः । ननु इन्द्रियस्थ स्वगुणग्राहकत्वे योग्यविशेषगुणशून्यत्वं तन्त्रं श्रोत्रं च विशेषगुणवत्त्वात् स्वगुणग्राहकं स्यादित्याह-योग्येति । इन्द्रियत्वेन हेतुना योग्यविशेषगुणशून्यत्वमपि पक्षे साध्यमिति साधनव्यापकत्वान्नायमुपाधिरित्याह - नेति ।

न्यायलीलावतीप्रकाशः

व्यापक निवृत्त्या गन्धोपलम्भकघ्राणस्यैव व्यावृत्तिः, न तु घ्राणमात्रस्येति विशेषपरत्वं तथात्रापि शक्यं वक्तुमिति भावः । 'अभौतिकत्वात्' अभूतत्वादित्यर्थः । अन्यथा दृष्टान्तस्य साध्यवैकल्यापत्तेः ।

न्यायलीलावतीप्रकाशविवृतिः

प्रसङ्गादित्यर्थः । [१] अभूतत्वादिति । अभौतिकत्वादित्यस्याभूतजन्यत्वादित्यर्थे साध्यवैकल्यं भूताजन्यत्वपरत्वे च प्रतियोगिगौरवात् तदपेक्षया लघुप्रतियोगिकस्य भूतत्वामावस्यैव साध्यत्वमुचितमिति भावः । न चाभूतजन्यत्वपरत्वं प्रकृते शङ्कितमेव न, आदिपदवृद्धिप्रसङ्गादिति वाच्यम्, पितृपैतामहादिवदुत्तरपदवृद्ध्या तदर्थे तद्रूपस्य


  1. "क्वचिदमसङ्गादिति पाठः । तत्र गन्धानुपलम्भकघ्राणपरत्वामसङ्गादित्यर्थ । अग्रे तथाऽ जापीति पाठे तथा बायुस्थलवदित्यर्थः ।" द्वितीयपुस्तके अधिकोऽयं पाठः ।