पृष्ठम्:न्यायलीलावती.djvu/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
न्यायलीलावती


मारप्स्यते [१] ऽपीत्य विरोधात् । प्रयोजनाभावात्तत्त्सिद्धि [२] रिति चेन्न, सर्वप्रयोजनानामस्मादृशैरनाकलनात् । अपि चान्धतम समचाक्षुषम्, आलोकासहकुतेन्द्रियवेद्यत्वाद्गन्धवत् [इति] । एवमपि तत्सामर्थ्यकल्पनायां चक्षुरेवैकमिन्द्रियं देहव्यापकमनुद्भूतरूपस्पत प्फ़्आतायेरपि भागे: स्वाधिष्ठानात बहि


न्यायलीलावतकण्ठाभरणम्

 ननु मनसा यदारम्भणीय तस्य प्रयोजनं सुखदुःखादिभोगजनकत्वं नास्तीति न तेनारम्भणीयमित्याहु-प्रयोजनेति । शरीरान्तरान्तचरिकृमेरेव तेन किञ्चित् प्रयोजनं, स्यादित्याह ---सर्वेति । षङ्भिन्नं तामसमिन्द्रियं सम्पि स्य स्फुटत्वेन चक्षुर्मात्रमंद झालोकापेक्षा स्यान्न च सास्ति, तथा च न यदिन्द्रियग्राह्यं तत्तदन्यदिन्द्रियमित्यर्थः । एवमपि वेति ([३]

कारिवैधर्म्म्येऽपि चाक्षुषत्वे रसादीनामपि चाक्षुषत्वमेव स्यादित्यर्थः । ननु आलोकाभाव एव तमः, तद्ग्रग्रहे चालोकापेक्षायां ग्राह्य

न्यायलीलावतीप्रकाश.

( गु? ) ग्राहक तत्तदा द्रव्यात्रारम्भकमितिव्याप्तेः मनसो जाग्रहशायां द्रव्यानारम्भकत्वनियमादित्यर्थः । नवैव द्रव्याणि पञ्चैव वहिरिन्द्रियाणीति विभागभङ्गाय पार्थिवादिभिन्नमिन्द्रियं साधयितुमाह-अपि चेति । 'स्वाधिष्ठानवृत्ति' स्वाधिष्ठानसम्बन्धग्राहकम्, 'वहिर्वृत्ति' स्वाधिष्ठाना-

न्यायलीलावतीप्रकाशविवृतिः

व्यतया रूपसाक्षात्कारकाले द्रव्यारम्भकत्वाद्यभिचार इति विभुपदम् । यदि च चक्षुषोऽनुद्भूतरूपस्पर्शरूपतया नोभ्दूतरूपस्पर्शवत्तेजः साहित्येनारम्भकत्वं तदा प्रत्यासत्तिघटकतया स्वीयरूपसा (क्षा ? )त्कारजननकाले कपालादेर्घटाद्यारम्भकतया व्यभिचार इति विभुपदं द्रष्टव्यम् । उपनीतादिभानमादाय पूर्वोक्त एव व्यभिचार इति विशेषपदं ग्रहणविशेषणम्, लौकिकत्वं च तदर्थः । उक्तव्याप्तौ च निरु-


  1. ०नमारभतेऽपी० ।
  2. तदसिद्धिरि० ।
  3. आदर्श मूलपुस्तकत्रयानुसारेण 'एवमपी"ति प्रतीकधारणं युक्तम् ।