पृष्ठम्:न्यायलीलावती.djvu/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
न्यायलालीवतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


र्वृत्ति च स्यादितीन्द्रियनानात्वापलापः । वेद्यप्रच्युति [१] परिच्छेदे नेन्द्रियाणां विषयसहकारित्वं सर्वत्राभाव [२] ग्रहणप्रसङ्गात् इत्यालोकानपेक्षेति चेन्न, अनपेक्षा कथमप्यस्तु [३], तथाप्येतद्धेतुकचक्षुर्वैजात्य सिद्धेः । कथं तर्हि युगपद्धटतिमिरदीपादीनामुपलम्भ इति चेन्न, क्रमेण मनसाधिष्ठाने [४] सूक्ष्मकालभेदसम्भवात् तदिन्द्रियाणि मनोवद्रव्यान्तराण्येवेति नवैवेति व्याघातः ।

 अत्रोच्यते । बहिरिन्द्रियग्राहकमानेनाद्यहेतुबाधात्


न्वायला लावतीकण्ठावरणम्

मेव तन्न स्यादित्याह-वेद्येति । 'वेद्यो' विषयस्तस्य 'प्रच्युति'रभावस्तद्ग्रहे विषय एव न सहकारीत्यर्थः । आलोकानपेक्षायामिदं निमित्तमस्तु तथापि आलोकासह कृतेन्द्रियवेद्यत्वनिबन्धनमचाक्षुषत्वं तम सो दुर्वारमेवेत्यर्थः । ननु घटतिमिरयोर्युगपदुपलम्भवलात घटग्राहकचक्षुर्ग्राह्यत्वं तिमिरस्यापि स्यादित्याह – कथमिति । युगपत् प्रत्ययो भ्रान्त इत्याह — क्रमेणेति । उपसंहरति — तदिति ।

 आद्यो हेतुरिन्द्रियत्वं भूतभेदबाधकं यदुक्तं तद् भूतत्वनियतबहिरिन्द्रियत्वसिग्घा बाधितमित्याह - वहिरिति । भूतत्वसाधनायाह--

न्यायलीलावतीप्रकाशः

सम्बन्धग्राहकमित्यर्थः । वेद्येति । अभावज्ञान इत्यर्थः । विषयेति । प्रतियोगिन्हकारित्वमित्यर्थः । कथमिति । घटतिमिरग्राहकेन्द्रिययोर्भेदेन म गन्मनसाधिष्ठान सम्भव इत्यर्थः ।

 बझिरीन्द्रियेति । भूतभेदग्राहकानुमानं भूतत्वग्राहकानुमामबाधित-

न्यायलीलावतीप्रकाशविवृतिः

पधिसहचार एव विपक्षबाधकः । मिश्रास्तु तेन युगपदिन्द्रियाधिष्ठा नसम्भवाद्व्यासङ्गानुपपत्तिरित्येव विपक्षबाधकमत एव मूले स्वमि त्युक्तमिति वदन्ति तदयुक्तम् । विभुविशेषगुणकाले स्वल्पारम्भाविरोधादारब्धस्य मनस्त्वे मानाभावाञ्च । अभावरूपविषयसहकारित्वमत्रापीत्यत आह - प्रतियोगीति । ननु भूतत्वाभूतत्वौदासीन्येनैष बहिरिन्द्रियग्राहकमानप्रवृत्तिरित आह - भूतेति । तथा च मूले


  1. अपरिष्कृतिप० ।
  2. ०भावाग्र० ।
  3. कथाञ्चिदस्तु ।
  4. सा तदधिष्ठाने ।