पृष्ठम्:न्यायलीलावती.djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
न्यायलीलावती


यद्यद्वझाविशेषगुणव्यञ्चकं [१] तत्तद्वाह्यविशेषगुणाश्रय एव, यथा वायुतेजसी [२] न चास्य शङ्कितव्यभिचारित्वम् दृश्यादृश्योपाधिव्युदासे साध्येतरतोपाधेर्बाधैकगम्यस्य [३] तदभावेनाभावे तद-


न्यायलीलावतीकण्ठाभरणम्

यद्यदिति । यद्वहिरिन्द्रियं रूपादिषु मध्ये यं विशेषगुणं गृह्णाति तद्वहिरिन्द्रियं तज्जातीयविशेषगुणवदेवेति व्याप्तेर्ध्राणादीनां गन्धववत्त्वादिसिद्धौ पृथिवीत्वादिनियमे भूतत्वस्यैव सिद्धेरित्यर्थः । इयमेव व्याप्तिर्मनोव्यावृत्तये बाह्यपदप्रक्षेपेण सूचिता ।

 ननु तद्वाह्यगुणग्राहकमपि तज्जातीयविशेषगुणवन्मा स्यादित्याशङ्कयाह---न चेति । उपाधिशङ्कया व्यामेचारशङ्का स्यात् सैव नास्तीहत्या - दृश्येति । तदनुपपत्तेरिति । व्यभिचारशङ्कानुपपत्तेरित्यर्थः ।

न्यायलीलावतीप्रकाशः

मित्यर्थः । तदुपपादयति – यद्यदिति । द्रव्यं सदिति शेषः । तेनालोकरूपादौ न व्यभिचारः । वाह्यग्रहणं मनोव्यावृत्त्यर्थम् । द्वितीयं तत्स्पष्टार्थम् । तथा च घ्राणादीनां गन्धवत्वादिसिद्धौभूतात्मकत्वसिद्धेरित्यर्थः । ननु द्रव्यत्वमसिद्धं न चेन्द्रियत्वेन तसिद्धिः तस्याप्यसिद्धे, मनसो दृष्टान्तस्यापीन्द्रियत्वासिद्धेः क्रियायाः

न्यायलीलावती प्रकाशविवृतिः

बहिरिन्द्रियग्राहकपदेन तदुपजीवकमानमेवोक्तमिति भावः । द्रव्यं सदिति । व्यञ्जकता चासाधारण्येनोक्का । तेन न कालादौ व्यभिचारः । मनोव्यावृत्त्यर्थमिति । सा च बाह्यपदस्य व्यञ्जकविशेषणत्वे न तु विशे-


  1. ०गुणाभिव्यञ्जकामति दीधित्यभिमतः पाठः ।
  2. यद् यदिति तत्तदिति वीप्सितम् । यद् यद् द्रव्यम् । अभिव्यञ्जकत्वं त्वभिव्यक्तिजनकविषयसन्त्रिकर्षशालित्वम् । तेनात्मादिन्युदासः । 'बाझो' वहिरिन्द्रियग्राझः: । विशिष्यते इति विशेषोब्नान्मसमवेतः । मनोव्यावर्त्तनाय वैकल्पिक मनयोरुपादानम् । वहिरिन्द्रियग्राय विशेषगुणजातीयगुणवत्वं भूतत्वमिति ताइयेणोपादानम् । गुणपदं च गुणन्वव्याप्यजात्या तज्जातीयत्वलाभाय । यद्वा यद् द्रव्यं यस्य वाह्यविशेषगुणस्याभिव्यञ्जकं तत् तज्जातीयगुणवदित्यर्थः । वाह्यत्वमनात्मसमवेतत्वम् । विशेषगुणत्वं च प्रतिनियतेन्द्रियग्राह्यत्वम् । तेन स्नेहसासिद्धिकद्रवत्वा भिव्यञ्ज कदर्शनस्पर्शनयोर्न व्यभिचारः । न वा गन्धाभिव्यञ्जकसलिले व्यभिचारः उद्भूतरसवदन्यत्वेन विशेषणात् । उद्भूतोपादाभ घ्राणरसनयोरसिद्धिः ।" "बायुतेजसी, वायुप्रभे । इति दीधितिः ।
  3. बाधकैकग० ।