पृष्ठम्:न्यायलीलावती.djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावती प्रकाशः

करणजन्यत्व मात्र व्याप्तेः तस्य चाद्रव्येऽपि सत्त्वात् । अत्राहुः । गन्धोपलब्धी रसाधुपलब्ध्यजनकसंयोगिकरण साध्या तदन्यकार्यत्वादिति व्यावृत्तकरणसिद्धां तत् पार्थिवं रसाद्यव्यञ्जकत्वे सति गन्धव्यञ्जकद्रव्यत्वात् चम्पकाद्याधिवासाधिकरणविततद्रव्यवदिति द्रव्यत्वग्राहकमुपजीव्यैव वहिरिन्द्रियत्वस्य हेतुत्वं ततश्च पृथिवीत्वादिसिद्धिरिति भवति बहिरिन्द्रियत्वसाधनेन परम्परया बाधः ।

न्यायलीलावती प्रकाशविवृतिः

षगुणविशेषणत्वे इति ध्येयम् । गन्धोपलब्धिरिति । गन्धलौकिकसा क्षात्कार इत्यर्थः । मनसाऽर्थान्तरमत आह-रसादीति । आदिपदं साध्यान्तरसूचनाय । द्रव्यत्व सिद्धये संयोगाति । चक्षुरादीनामुक्तरूपेणैव कारणत्वमिति नाप्रयोजकता । अत एव न व्यापकांशव्यर्थतापि । तदन्येति । रसोपलब्ध्यन्यकार्यत्वादित्यर्थः । नन्विदं यथाश्रुतमडुगदौ ब्यमिचारि । मैवम् । रसोपलब्ध्यन्यवह र्विशेग्यकलौकिक साक्षात्कारत्वस्य हेतुत्वात् । अत एव न सुखोपलब्धौ न वा रूपस्योपनीतस्य मानससाक्षात्कारे न वा रूपविशेष्यका (नु ?) मितौ व्यभिचारः । दृष्टान्तश्च रसगर्भसाध्ये च रसोपलब्धिः । यदि च बहिरिन्द्रियमात्रासिद्धेर्न सा दृष्टान्तस्तदा व्यतिरेक्येव च्छिशवदिति पाठेऽपि च्छिदशपदस्यांक्त्त एव तात्पर्यमिति मिश्राः ।

 केचित्तु तदन्यशरीरजन्य कार्यत्वादिति हेतुः । अत एव च्छिदा दृष्टान्तः। न च चेष्टायां व्यभिचारः शरीरनिमित्तकारणत्वस्य हेतुप्रवेशात् । न च तथापि सुखाधुपलब्धौ व्यभिचारः, मानससाक्षात्कार. भिन्नत्वेन विशेषणादित्याहुः । संयागित्वेन तत्सिद्धौ यद्यद्वाह्येत्यादिमूलांक्तव्याप्तिप्रभवानुमानादेव यद्यापे भूतत्वसिद्धिस्तथापि तस्याव्यत्रैव पर्यवसानमित्यभिसन्धानेन वैशद्याय वा पार्थिवत्वं साधयति---- तत्पार्थिवमिति । द्रव्यत्वग्राहकमिति । अन्यथा संयोगाश्रयत्वगर्भोन्द्रियत्वस्यैवाग्रहादिति भावः । हेतुत्वं प्रयोजकत्वं पक्षतावच्छेदकतयेति शेषः । न च तथापि न बहिरिन्द्रियत्वग्राहकेन बाधस्तस्य भूतत्वाविषयत्वादित्यत आह—ततश्चेति । द्रव्यत्वमगृहीत्वा न तद्ब्रहस्तद्गहे च तद्- गर्भनिरुक्तहेतुना पृथिवीत्वसिद्धौ परम्परया तद्बाध इत्यर्थः । यद्यपि द्रव्यत्वग्राहकेण न बावः पार्थिवत्वग्राहकस्य [च] नोपजी-