पृष्ठम्:न्यायलीलावती.djvu/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
न्यायलीलावती


नुपपत्तेः । न च जलेन व्यभिचारः, रसेऽपि [१] व्यञ्जकत्वात् । नापि पार्थिवे योग्यतानियमः, तेजोवदनुभूतरूपस्पर्शत्वाद्यविरो


न्यायलीलावतीकण्ठा भरणम्

म्राणस्य पार्थिवत्वे साध्ये गन्धमात्रव्यञ्जकत्वस्य हेतोर्नवशरावगन्धव्यञ्जकजले परेणोक्तं व्यभिचारमपाकरोति- -न चेति । रसस्या पीति । शल्कादि (सक्त्वादि ?) रसस्येत्यर्थः । स्वकीयरसस्य वा । न च कुङ्कुमगन्धाभिव्यञ्जकघृतादिर्दृष्टान्तत्वं न स्यादिति वाच्यम्, यत् पार्थिव न भवति तद्रूपादिषु मध्ये गन्धमात्रव्यञ्जकमपि न भवतीति व्यतिरेक व्याओतेरेवाभिमतत्वात् । अन्वय स्तूपेय एव । अत्र न तूपायोऽपीति भावः । महत्यां पृथिव्यां गन्धाद्यन्यतमोद्भव नैयत्यं परोक्तं दूषयति - नापीति । तेजोवदिति । जठरानलो दृष्टामतः । चक्षुषस्तैजसत्वासिद्धावपि । तर्हि वायुरप्यनुद्भूतगन्धा-

न्यायलीलावतीप्रकाशः

जलेनेति । नवशरावे गन्धव्यञ्जकेनेत्यर्थः । रसस्यापीति । सक्तुप्रभृतौ तथा दर्शनादिति भावः । न च गन्धव्यञ्जकरसाद्यव्यञ्जकजलव्यत्तया व्यभिचारः, द्रव्यत्वसाक्षादृव्याप्यभिन्नरूपेण गन्धासाधारणव्यञ्जकत्वस्य घ्राणपार्थिवत्वसाधकत्वात् । पृथिव्या द्रव्यत्वव्याप्यव्याव्येन घृतत्वादिना गन्धव्यञ्जकत्वात्, जलस्य तु जलत्वेनैव तत्त्वात्, मइतः पार्थिवस्येत्यादि दूषयति - नापीति। तेजोवदिति । यद्यपि चक्षुषस्तैजसत्वासिद्धेः सुवर्णस्य च चाक्षुषतथा उद्भुतरूपत्वान्न दृष्टान्तता तथा-

न्यायलीलावतीप्रकाशविवृतिः

क्यतेति न बाधः, किन्तु समबलतया सत्प्रतिपक्षतैव, तथापि क्लृप्तान्तर्भावलाघव सहकारेण तस्य बलवत्वाद्वाध इत्यभिसन्धिः । अत एव "अभूतत्वसाधनमप्रयोजक” मिति वक्ष्यति । द्रव्यत्वेति । द्रव्यत्वसाक्षाद्यादयघटितभिन्नरूपेणेत्यर्थः । अन्यथा जलस्यापि योग्यजलत्वेन गन्धव्यञ्जकतया व्यभिचारतादवस्थ्यात् । न हि तत्र जलत्वमवच्छेदकमतिप्रसङ्गात् । एवं च तादृशधर्मघटितेन मनस्त्वेन मनतोऽपि गन्धव्यञ्जकतया तद्यावृत्यर्थमसाधारणेत्युक्तम् । द्रव्यपदञ्चात्र प्रवेश्यमन्यथा सन्निकर्षे व्यभिचारतादवस्थ्यात्। 'जलत्वे-


  1. द्रस्यापि ।