पृष्ठम्:न्यायलीलावती.djvu/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


धात् [१] । न च [२] वायुवन्दीग्रहः [३] तत्र विशेषस्योक्तत्वात् । चक्षुच विचित्रमपि स्यादबिन्धनतेजोवत् तैजसं, गुणेषु


न्याय लीलावतीकण्ठाभरणम्

दिका पृथिवी स्यादिति परोक्तं दूषयति – नापीति । विशेषस्येति । उद्भूतस्पर्शाया पृथिव्या उद्भूतरूपवत्त्वनियमान्न वायुः पृथिवीत्युक्त्तत्वादित्यर्थः । कोशादिव्यापिन इत्यादि परोक्त्तं दूषयति - चक्षुरिति । विचित्रत्वमनुभूत सर्वगुणत्वम् । यथा तेजोविशेषस्याविन्धनत्वं तथैत दपीत्यर्थः । तैजसमिति । चक्षुरित्यनुवर्त्तनीयम् । गुणोष्विति । रूपादिचतुर्ष्वित्यर्थः । तथा च परगन्धाद्यव्यञ्जकत्वे सति पररूपव्यञ्जकत्वादिति तैजसत्वे हेतुरिति भावः । एवं रसनमपीत्यत्राव्यमिति शेषः । रूपादिषु मध्ये रसस्यैव व्यञ्जकत्वादित्यर्थः । श्रोत्रस्य स्वगुणग्राहक-

न्यायलीलावतीप्रकाशः

पि जाठरानल एव दृष्टान्तः । वस्तुतो घ्राणं यादे पार्थिवं महत्स्यादुद्भूतगन्धाद्यन्यतमं स्यादित्यत्र विपक्षे बाधकाभावादप्रयोजकत्वम् । अन्यथा महत्त्वमात्रेऽपि तत्प्रयोजकमित्याकाशे महत्वं न स्यात् । विशेषस्येति । पार्थिवगन्धस्पर्शयोस्तुल्ययोगक्षेमत्वादित्यस्येत्यर्थः । विचित्रमिति । क्रोशादिव्यापकमध्यनुभूतरूपस्पर्शमित्यर्थः । तैजसत्वसिद्धावविन्धनं तेजो दृष्टान्तः स्यादिति तत्साधयति तैजसमिति । गुणेष्विति । परकीयगन्धाद्यव्यञ्जकत्वे सति परकीय रूपव्यञ्जकत्वादि-

न्यायलीलावतीप्रकाशविवृतिः

नैव' जलत्वघटितेनैवेत्यर्थः । घ्राणमिति । अत्रापाद्ये उद्भूतपदं प्रत्यक्षपरं तेन न घ्राणस्याणुत्वमङ्गीकृत्येष्टापत्तिः । न चैवं मन्मते आपा(द?) कासिद्धिः स्थूलावयवावच्छिन्नगन्धग्रहानुपपत्या महत्त्वसिद्धेरिति भावः । एवं च परमाणावेव व्यभिचार इति महदिति विशेषणम् । जठर्यानले व्यभिचार इति पार्थिवमिति । वज्रादौ व्यभिचार इत्यन्यतमपदम् । संयोगादिव्यञ्जकतया स्वरूपासिरन्यथा व्याचष्टे परकीयेति । गन्धाव्यञ्जकत्वे सति व्यञ्जकत्वमप्रसिद्ध व्यञ्जकमात्रस्यैवोपनीतगन्धाभिव्यक्तिस्वरूप्रयोग्यत्वादिति परकीयेति विशे-


  1. ० स्पर्शवत्त्वाद्य० ।
  2. नापीति कण्ठाभरणधृतः पाठः ।
  3. श्रायुमाविवन्द्रिग्र० ।