पृष्ठम्:न्यायलीलावती.djvu/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
न्यायलीलावती


न्यायलीलावतीप्रकाशविवृतिः

षणम् । तदर्थस्तु पर: [१] स्वाश्रयस्तद्विशेषणकत्वम् । एवं चाश्रयविशेषणकगन्धाभिव्यक्तिजनकान्यत्वं सत्यन्तार्थः । उपनीतभाने च गन्ध एव विशेषणं न त्वाश्रय इति भावः । तावन्मात्रं च त्वगादौ व्यभिचारीति रूपव्यञ्जकत्वम् । तदपि त्वगादौ व्यभिचारीति परकीयेति । परविशेषण केत्यर्थः ।

 वस्तुतस्तु तादृशव्यञ्जकतावच्छेदकजातिमत्वं हेतुरतो न जलशरीरगोलके व्यभिचारः, तत्र व्यञ्जकतावच्छेदकस्य गोलकत्वस्य जनकत्वादिना सङ्करभयेन जातित्वाभावात् । चक्षुरधिष्ठानत्वस्यैव गोलकत्वरूपत्वात् । अत एव सन्निकर्षे व्यभिचार (वार? ) णाय नात्र द्रव्यपदमुपात्तम् । तत्र तादृशजात्यभावेनैव व्यभिचाराप्रसङ्गात् । आश्रयविशेषण केत्यादौ स्वविशेष्यकेत्यर्थस्तेन गन्धविशेष्यक साक्षात्काराजनकत्वे सति रूपविशेष्यकसाक्षात्कारजनकत्वं हेतुः पर्य्यवस्यति । एवं च घटगन्धसमानाधिकरणः स्पर्श इत्यादिक्रमेण त्वगादीनामप्याश्रयविशेषणकगन्धव्यञ्जकतया नाप्रसिद्धितादवस्थ्यम्, न वा घटरूपसमानाधिकरणः स्पर्श इति प्रतीति मादाय व्यभिचारतादवस्थ्यम् । न चैवमपि सामान्यजप्रतीतिमादाय तदुभयदोषतावस्थ्यं लौकिकत्वेनापि विशेषणादिति मिश्राः ।

 अत्र वदन्ति एवं सति प्रदीपदृष्टान्तानुपपत्तिः, तत्र व्यञ्जकतावच्छेदकजातेरसत्त्वात् । प्रदीपत्वादेरल्पवृत्तितया तेजस्त्वस्य चातिप्रसक्त्या उद्भूतरूपालोकत्वेनैव व्यञ्जकत्वादिति । अत्र ब्रूमः । तेजस्त्वव्याप्योद्भूतरूपसमवायिकारणतावच्छेदकजा तेरेव प्रदीपादौ व्यञ्जकतावच्छेदकत्वम् । न च सा परमाण्वादिवृत्तित्वेनातिप्रसक्त्तेति वाच्यम्, उद्भूतत्वस्य निमित्तभेदप्रयोज्यत्वमितिमतेनैतदभिधानेन परमाण्वादौ तदस्वीकारात् । न च सा जातिः पृथिव्यामपीति अतिप्रसक्तिरिति वाच्यम, भास्वरत्वव्याप्यस्योद्भूतत्वस्य जातिसङ्करमयेन स्वीकारात् । तादृशरूपसमवायिकारणतायाः पृथिव्यादावभावात् यदि च ताइशजातिर्न स्वीक्रियत तदा न जातिगर्भो हेतु: किन्तुक्तव्यभिचारवारणाय शरीरावयवान्यत्वं हेतुविशेषणमतो न दृष्टान्तासिद्धिः । द्रव्यपदं च तथा सति सन्निकर्षवारणाय


  1. पर आश्रयस्त ।