पृष्ठम्:न्यायलीलावती.djvu/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


रूपस्यैव व्यञ्जकत्वात् दीपवत् । एवं रसनमपि । क्षित्यादेर श्रोत्रत्वे अजसंयोगाभावात् । शब्दद्रव्यत्वनिषेधे श्रोत्रस्य स्वगुणग्राह-


न्यायलीलावतीकण्ठाभरणम्

त्वेनानिन्द्रियत्वं यत् परेणोक्तं तत्राह-क्षित्यादेरिति । गन्धादिचतुर्णामव्यञ्जकत्वेन श्रोत्रं पृथिव्यादिचतुष्कान्तर्भूतं तावन्न भवति वि-

न्यायलीलावतीप्रकाशः

त्यर्थः [१]। एवमिति । गन्धादिषु रसस्यैव व्यञ्जकत्वादित्यर्थः । इन्द्रियत्वेनाभूतत्व साधनमप्रयोजकमिति भावःं । त्वगिन्द्रियस्य वायवीयत्वं प्रागेव साधितमिति श्रोत्रं न स्वगुणग्राहकमिति दूषयति —क्षित्यादेरिति । क्षित्यादेरथोत्रत्वमुभयसिद्धमतः श्रोत्रं न स्वगुणग्राहकमित्यत्र किमभिप्रेतम् ? किं श्रोत्रमाकाशाइन्यद्विभु द्रव्यं शब्दस्त्वाकाशगुणः द्रव्यमेव वा शब्दः, क्षित्यादेरन्यदविभु द्रव्यं वा श्रोत्रं शब्दस्त्वाकाशगुण एव । आद्ये अजसंयोगेति । विभुद्रव्ययोः संयोगाभावे संयुक्त्तसमवायाभावाच्छन्दाग्रहणप्रसङ्गः । द्वितीये शब्दद्रव्यत्वेति । बहि- रिन्द्रियव्यवस्थापकत्वादिना गुणत्वसिद्धेरित्यर्थः । तृतीये श्रोत्रस्येति । वहिरिन्द्रियस्य तस्य ग्राह्यजातीयासाधारणगुणवत्त्वेन शब्दवत्वात् क्षित्यादौ च शब्दनिषेधात् शब्दाश्रयस्य लाघवाक्यसिद्धेः धर्मि-

न्यायलीलावतीप्रकाशविवृतिः

प्रवेश्यमिति संक्षेपः ।

 वस्तुतो गुणेषु [२] मध्ये रूपविशेष्यक प्रत्यक्षमात्रजनकत्वादिति मूलानुसारी हेतुः सम्यक् | गोलकस्यापि स्वीयरूपव्यञ्जकतया न व्यभिचारः । प्रदीपप्रभा च दृष्टान्तोऽतो न स्पर्शव्यञ्जकतया साधनवैकल्यमिति । ननु रसनस्येन्द्रियत्वेनाभूतत्वसाधने जागरूके आप्यत्वसाधनं बाधितमित्यत आह–इन्द्रियत्वेनेति । धर्मीति । श्रोत्रं न स्वगुण-


  1. गन्धायव्यञ्चकस्यापि दीपस्य स्वीयस्पर्शाभिव्यञ्जकत्वान्न गन्धायव्यञ्जकत्वमित्याद्यं परकीयपदम् । द्वितीयं च परं गन्धायव्यञ्जकस्वीयरूपव्यञ्जकघटादिवारणाय । वस्तुतो गन्धादिसामान्य मेवोपादेयम । स्पर्शघटिते तु प्रभैव दृष्टान्तः । गन्धरसाव्यञ्जकस्येव वज्जादेर्गन्धरसस्पर्शाव्यञ्जकस्य चेन्द्रनीलादिप्रभासम्बद्धस्य पार्थिवभागस्य स्वीयरूपञ्चकत्वात् परकीयेति । इति दीधितिः । प्रभाया दृष्टान्तत्वपक्षे आद्यपरकीय पदानुपादाने पार्थिवत्रसरणौ व्यभिचारवारणाय द्वितीयपर- कीयपदमित्यस्मद्गुरुचरणाः ।
  2. णेषु गन्धादिषु म० ।