पृष्ठम्:न्यायलीलावती.djvu/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
म्यायलीलावती


कत्वात् । न चान्धकारग्राहकमन्यत् | निषेध्यनिषेधयोः समानेन्द्रियवेद्यत्वनियमात् । व्याघाताञ्च । प्रतियोगित्व सहकारि-


न्यायलीलावतीकण्ठाभरणम्

भुद्रव्यान्तरं यदि श्रोत्रं स्यात्तदा संयुक्तसमवायेन शब्दग्रहः सम्भाव्येतापि, यद्याकाशेन तस्य संयोगः स्यात्, स च नान्यतरकर्म्मादिजन्योऽतोऽजः स्वीकर्त्तव्यः । स च प्रमाणबाधित एव । संयोगप्रत्यासत्या च तदा, यदि शब्दो द्रव्यं स्यात्तथा च परिशेषात् समवाय एव सन्निकर्ष: शब्दग्राहक इति परिशेषादाकाशमेव श्रोत्रम् । तच्च स्वगुणग्राहकमेवेत्यर्थः । तथा चेन्द्रियत्वेन श्रोत्रस्य स्वगुणग्राहकत्वे साध्येऽनुभूतगुणत्वमेवोपाधिरिति भावः । तामसमिन्द्रियान्तरं निराकरोति - न चेति । निषेध्येति । प्रतियोगिग्राहकेन्द्रियग्राह्यत्वादभावस्य चाक्षुषमेव तम इत्यर्थः । तर्हि तमोग्रहे वाड्यालोकः सहकारी स्यादित्यत आह-व्याघातादिति । तत्सहकारित्वे तम एव तत्र व्याहतं स्यादित्यर्थः

 आप्य वैधम्म्यै सत्यपि यदि रसनमाप्यं तदा पृथिवीवैधर्म्ये-

न्यायलीलावतीप्रकाशः

ग्राहकमानबाध इत्यर्थः । यद्यपि यद्यत्प्रतियोगिग्राहकं तत्वदभावग्राहकमित्युपमाने व्यभिचारि । यदिन्द्रियं यद्राहकं तत्तद्भावग्नाहकमित्यपि मूर्त्तवत्वाभावे व्यभिचारि मूर्त्तवत्वस्य योग्यायोग्यमूर्त्तघटितत्वेन तदद्भावस्यातीन्द्रियत्वात्, तथापि यदिन्द्रियं वद्राहकं तत्तदैन्द्रियकाभाषप्राहकमित्तिनियमादालोकस्य चाक्षुषत्वे तदमावस्यापि चाक्षुषत्वमित्याह-निषेध्येति । एतच स्वसिद्धान्ताबह म्भेन अन्धकारस्याभावत्वमभ्युपेत्योक्तम् । ननु चाक्षुषत्वे तस्मालोकसहकारित्यप्रसङ्ग इत्यत आह-व्यापाताञ्चेति । आलोकसत्त्वे तत्संसर्गाभावरूपं तमो ग्राह्यमेव न स्यादिति किंग्रह स सहकारी स्यादित्यर्थः । इन्द्रियाणां भौतिकत्वे मनोऽपि तथा स्यादित्यत

न्यायालीलावतीप्रकाशविवृतिः

ग्राहकमित्यस्येति शेषः ।

 'ननु चाक्षुष (त्व ? ) इति । चक्षु ( व ? ) स्तमोवा (म्रा ?)हकत्व इत्यर्थः । प्रसन्नाल्धोक्ष्भन्नग्वेलकोऽन्ध इत्यर्थः झात्रतदधिष्ठानयो