पृष्ठम्:न्यायलीलावती.djvu/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्वस्यापि प्रतिक्षेपात् । मनःप्रतिबन्दिग्रहस्य [च] मनस्येव निरसनात् । तथापि विशिष्टादृष्टोपगृहीतं गोलकमेवास्तु इन्द्रियं कर्णशष्कुलीवत् । न च व्यवहितोपलम्भापत्तिः । योग्यदेशस्थस्यैव ग्राह्यत्वात् । अन्यथा महानिले [१]ऋजुवस्त्वग्रहणप्रसङ्गः । पवनेन तेजसां दूरमपनयनात् तेजोभेदे नैवमिति चेन्न, करा-


न्यायलीलावतीकण्ठाभरणम्

ऽपि मनः पृथिवी स्यादिति यदुक्तं परेण, तद्दूषयति---- मन इति । बौद्धः शङ्कते- तथापीति । कर्णशष्कुलीवदिति प्रसाध्याङ्गकम् । विशिष्टादृष्टोपगृहतित्वमात्रे वा कर्णशष्कुली दृष्टान्तः । वहिर्वृत्त्यभावमात्रे वा प्रसन्नान्धव्यावृत्तये विशिष्टादृष्टोपगृहीतत्वं विशेषणम् । ननु प्राप्तिश्चेन्न तन्त्रं तदा व्यवहितमपि गृह्णीयादित्यत आह—न चेति । विषययोग्यताया एव प्रयोजकत्वं न तु प्राप्तेरित्यर्थः । अन्यथेति । यदि प्राप्य गृह्णीयादित्यर्थः । तेजोभेद इति । शीघ्रगमनशील इत्यर्थः । एतादृशस्थानपनेयत्वे करेणापि चक्षुरपनयो न स्यादित्याह—कराभ्यामिति । सन्नि-

न्यायलीलावतीप्नकाशः

आह - मनःप्रतिवन्दीति । यद्यपि चक्षुस्तैजसत्वं प्रांगेव साधितं तथापि गोलकसम्बद्ध मेव तेजश्चक्षुरस्तु नाश्रयवहिर्वर्त्तीति शङ्कामाह -तथापीति । विशिष्टादृष्टोपगृहीतमिति । प्रसन्नान्धव्यावृत्तये अधिष्ठानादन्यदेशगामित्वाभावसाम्येनाह - कर्णशकुलीवदिति । यथा कर्णशकुलीवहिर्वृत्त्याकाशं न श्रोत्रमित्यर्थः । ननु चाप्राप्तत्वाविशेषात्कुड्यव्यवहितमपि चक्षुर्गृह्णीयादित्यत आह - न चेति । गोलकाद्वहिर्निर्गच्छञ्चक्षुः कियदूदूरमेव गच्छति नातिदूरम्, स्फटिकादिना न प्रतिवध्यते किन्तु कुड्यादिनेति त्वदुपगमवन्मयापि देशस्वभावविशेषस्य योग्यतानियामकत्वोपगमादित्यर्थः । ननु विषयसम्बद्धस्वभावत्वाचक्षुषो न पचनेन दुरापनय इत्याह -तेजोभेद इति । कराभ्यामिति । यद्यपि क्ररादिवारणीयमपि काण्डादि वायुना न प्रतिबध्यत इत्यनैकान्तिकं

न्यायकीलावतीप्रकाशविवृतिः

रभेदा ( दा ? ) ह-- अधिष्ठानादिति । विषयसम्बद्धेति । अन्याप्रतिरुद्ध [२]


  1. ० था महानिज्ञि ।
  2. ० न्याप्रतिबद्धस्व ० ।