पृष्ठम्:न्यायलीलावती.djvu/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


त्वविरोधात् । ज्ञातृभेदेनैकस्यैव ज्ञातृपुरोवर्तिकुड्यादिपरापरदेशसंयोगित्वं तत्त्वमविरुद्धमिति चेन्न, आवृताप्रकाशकत्वेन दीप- वत्प्राप्यकारित्वसिद्धेः । नेतरः । तत एवाधिष्ठान बहि र्भूतेन्द्रि-


न्यायलीलावतीकण्ठाभरणम्

मित्यर्थः । ज्ञातृभेदेनेति । ज्ञात्रोश्चैत्र मैत्रयोः पुरोवर्ति यत् कुड्यं यत्परावरदेश संयोगित्वमावृतानावृतत्वमविरुद्धमेवेत्यर्थः । चक्षुः प्राप्यकारि प्रकाशकत्वे सति आवृताप्रकाशकत्वात् प्रदीपवदित्यनुमानात् प्राप्यकारित्वसिद्धिरित्याह — आवृतेति । इन्द्रियप्राप्तियोग्यताभ्युपगमेनैव दूषयति – नेतर इति । तत एवेति । गोलकस्य दूरस्थेनाप्राप्ते रित्यर्थः । महानि-

न्यायलीलावतीप्रकाशः

महत्त्वविशेषः कारणमिति भावः । ननु यत्र क्वचित् कुड्यादिसत्त्वं न प्रतिबन्धकमपि तु ग्राह्यग्राहकमध्यवर्त्ति । न चैवं कुड्यादौ मध्यवर्त्तिनि पर्वताद्यग्रहप्रसङ्गः, ग्राह्याधिकपरिमाणवन्मध्यवर्त्तिनः कुड्यादेः प्रतिबन्धकत्वादित्यभिप्रेत्याह - ज्ञातृभेदे (ने?) ति । आवृतेति । चक्षुः प्राप्यकारि प्रकाशकत्वे सत्यावृताप्रकाशकत्वात् प्रदीपवत् । न च गोलकपक्षी-

न्यायलीलावतीप्रकाशविवृतिः

नास्त्येवेति नेष्टापत्तिरिति भावः । इतिपूर्वोत्तरफक्किकयोर्व्याख्यानमयुक्तं देशस्य योग्यत्वेऽपि महत्त्वविशेषरूपसहकारिविरहादेव दूरस्थकेशानुपलम्भोपपत्तेस्तस्य देशयोग्यतायामबाधकत्वात् । तस्मादेवं व्याख्या । ननु यथेन्द्रिय सन्निकर्षनियामकत्वपक्ष तवेन्द्रियसम्बद्धस्यापि व्यवहित केशस्याग्रहस्तथा देशस्वभावस्यापि नियामकत्वे मम कुतश्चिन्निमित्तादावृताग्रहः स्यादित्याशङ्कायामाह - सन्निधानवदिति । तथा च महत्त्वविशेषकारणाभावाद्दुरे केशाग्रह उपपद्यते न वावृताग्रहः, इन्द्रिय सन्निकर्षस्थानियामकत्वे ग्रहकारणवैकल्याभावादिति। प्रात्याधिकेति । अन्यूनेत्यर्थः । समानपरिमाणस्यापि प्रतिबन्धकत्वात् । यद्यप्युपरिस्थेन न्यूनपरिमाणेनापि पर्वतादिग्रहप्रतिब न्धादधिकपरिमाणेनापि किञ्चिदूरस्थवस्तूपलम्भाप्रतिबन्धाञ्चेद्मयुक्तं तथापि प्राप्यकारितापक्षेऽपि किञ्चित् क्वचिन्नयनगतिप्रतिबन्धकमुपेयम् । तथा च यादृशमेव नयनप्रतिबन्धकं तादृशमेवोपलम्भप्रतिबन्धकमिति भावः । न च नोलकेति । यद्यव्यतिरिकतेजसः