पृष्ठम्:न्यायलीलावती.djvu/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
न्यायलीलावती


यसिद्धेः । ऋजुवस्तुग्रहोऽपि तस्यातिशयितवेगवत्त्वेनाप्रतिबन्धात् । तस्य च फलोन्नेयत्वात् अचिरदीधितिसंयोगवत् । अत एव यौगपद्यस्य भ्रान्तत्वं [१] त्वगपि चान्य एव पवनः । तस्येन्द्रियत्वेनानु [२]द्भूत स्पर्शत्वानुमानात् । न चात्रानियम-


न्यायलीलावतीकण्ठाभरणम्

लप्रेर्यत्वं यदुक्तं तत्राह — ऋज्विति । तर्हि करप्रेर्य्यत्वमपि न स्यादिति यदुक्तं तत्राह - तस्येति । निविडावयवद्रव्यापनेयत्वेऽपि महानिलानपनेयत्वं फलबलोन्नेयमित्यर्थः । अत एवेति । प्राप्यकारित्वा देवेत्यर्थः । सन्निकृष्टविप्रकृष्टयोर्युगपत् प्राप्तिरपि पृथक्तया उपपद्यत इति भावः । इन्द्रियत्वेनेति । शब्देतरोद्भूत विशेषगुणानाश्रयत्वे सति ज्ञानजनकमनःसंयोगाश्रयत्वमिन्द्रियत्वमितिव्यवस्थापनादिति भावः । इन्द्रियत्वेऽ प्यनुभूतस्पर्शत्वं माभूदित्यनियमशङ्कां निरस्यति न चेति । ननु

न्यालालावतीप्रकाशः

करणे बाधः, अतिरिक्तपक्षत्वे चाश्रयासिद्धिः, रसाद्यव्यञ्जकरूपसाक्षात्कार कारणत्वेनोभयसिद्धेन पक्षत्वात् । नन्वावृतत्वं यदीन्द्रियगतिप्रतिबन्धकमध्यस्थितद्रव्यकत्वं तर्ह्यसिद्धम् । अथाधिष्ठानासम्बन्धार्थग्राहकत्वं तदा शरीरेणानैकान्तिकं शरीरस्य हि स्वावयवोऽधिष्ठानमेव । मैवम् । पूर्वमेव चक्षुस्तैजसम्वसिद्धौ वहिर्वृत्तितार्थमेव विवादात् तैजसत्वेन हेतुविशेषणान्नानैकान्तिकम् । न च तैजस-

न्यायलीलावती प्रकाशविवृतिः

प्रागेव साधनाद्विकल्प्पोऽयमसङ्गतः, तथापि गोलक मात्रावच्छिन्नं तेजः पक्षो घटादिसम्बद्धं वेति विकल्पार्थो बोध्य: । नन्वावृतत्वमित्यत्रावृता प्रकाशकत्वमित्यर्थस्तेनाधिष्ठानासम्बद्धार्थग्राहकत्वमित्यनेन सामानाधिकरण्यं घटते । 'असिद्धि' रन्यतरासिद्धिः । प्रकृते तेजोगतेरन्यतरासिद्धत्वात् । तैजसत्वविशेषणासिद्धिपरिहारायाह - पूर्वमिति । तथा चाधिष्ठानासम्बद्धार्थप्राहकत्वमेव तदितिभावः । शरीरे च न व्यभिचार - तैजसत्वेनेति । तथा च प्रका शकपदं तैजसपरमिति अविष्ठानासद्वार्थग्राहक तेजस्त्वादिति


  1. भ्रमत्वात् त्व० ।
  2. र्शवत्त्मनुर