पृष्ठम्:न्यायलीलावती.djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोनासिता


न्यायलीलावतीकण्ठाभरणम्

मनोवत् बहिरिन्द्रियाण्यनुरूपानि स्युरिति शङ्कां निरस्यति-

न्यायलीलावतीप्रकाशः

शरीरेणानैकान्तः अन्त्यावयविभिन्नतैजसत्वस्य विवक्षितत्वात् । अंत्र यत्र काले चन्द्रसंयुक्त्तं चक्षुस्तत्काले शाखयापीति तुल्यका लग्रहणोपपत्तिः । न चाग्रावच्छेदेनैष चक्षुः संयोगो ग्राहकः, अन्यथा मूलावच्छेदेन गोलकस्य नित्यसम्बन्धात्तग्रहापत्तेरिति वाच्यम्, तिर्यग्भागेन शाखाचन्द्रमसोरगावच्छेदेन चक्षुः संयोगाविरोधादिति समाधाने सत्येव यत्र न तथात्वं तत्राह – अत एवेति । अतिशयितवेगवत्त्वादेवेत्यर्थः । ननु कर्मणां कथमेकत्र चिरत्वमन्यत्र क्षिप्रत्वं पूर्वदेशविभागोत्तरदेशसंयोगयोः कर्मणा जनयितव्ययोरविशेषात् । अत्राहुः । यत्र (तु) भूयोऽवच्छेदेनोत्तरदेशसंयोगस्तत्र क्षिप्रता, यत्र स्वल्पावच्छेदेन स, तत्र चिरत्वम्। न चैवमुन्मील्य निमीलितनयनस्थापि साक्षात्कारापत्तिः, गोलकसन्निकृष्टेन्द्रियस्य विषयसंयोगे सति तज्ज्ञानजनकत्वोपगमात् । ननु चक्षुरादीनामप्रत्यक्षगुणत्वात्परमाणुत्व.

न्यायलीलावतीप्रकाशविवृतिः

हेतुरिति भावः । अन्त्यावयवीति । शरीरतदयवभिन्नेत्यर्थः । अन्यथा तद्गोलके व्यभिचारतादवस्थ्यात् । एवं च सति घ्राणे व्यभिचार वारणाय तैजसपदमिति भावः । न चैवमधिष्ठानासम्बर्द्धति व्यर्थ स्वप्रकाशके शरीरतदवयवभिन्ने सुवर्णादौ स्वसंयुक्तार्थग्राहकत्व[१] ।लक्षणप्राप्यकारित्वसाध्याभावेन व्यभिचारात् । केचित्तूतानुमानस्य चक्षुः कर्मसंयुक्तं सत् ज्ञावकारणं साक्षात्कारसाधारणकारणतेजस्त्वादालोकवदिति तात्पर्यम् । तेज पदं च श्रोत्रे व्यभिचारवारणाये [२]ति वदन्ति । समाधान इति । इदं चोद्भूतानुद्भूतरूपाभ्यामारम्भपक्षेऽन्यथा सार्वकालिकयौगपद्यप्रत्ययानुपपत्तेः । वस्तुतस्तयोर्गुणविरोधेनारम्भकत्वमेव न भवतीति यथाकरमेव ग्राह्यमिति मिश्राः । यत्रतु भूय इति [३] । इदमपि कर्मवैजात्यादन्यथा कारणैकजात्ये कार्यवैलक्षण्यानुपपत्तेरिति भावः । चक्षुरादीनामिति । चक्षुरादेरणुत्वे स्थौल्याग्रहप्रसङ्गः, तदवच्छेदेन सन्नि ( क ? ) र्षा ( भावादिति ? ) भावः। द्रव्यान्तरत्वं नवद्रव्यान्यद्रव्यत्वमप्रसिद्धमित्यन्यथा व्याचष्टे-


  1. र्थप्रकाशकत्वल०
  2. येत्याहुः ।
  3. यत्र भूय इति ।