पृष्ठम्:न्यायलीलावती.djvu/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
न्यायलीलावती


शङ्का, निरुपाधित्वात् । स्पर्शवदिन्द्रियत्वाञ्च । रसनादयोऽप्यवयविन इति सिद्धमिन्द्रियम् ।

 ननु शरीरं नाम द्रव्यान्तरं, भूतचतुष्कप्रकृतिकत्वात् । तथा हि गन्धवत्त्वात् तत्पार्थिवं यथा तथा जलानलानिलप्रकृतिक मपि, द्रवत्वस्य स्यन्दनहेतुत्वात् उष्णतायाश्च पाकहेतुत्वात् ।

न्यायलीलावतीकण्ठाभरणम्

स्पर्शवदिन्द्रियत्वादिति ।

 पुनर्नवैव द्रव्याणीति विभागमाक्षिपति - नन्विति । द्रव्यान्तरत्वं नवभिन्नत्वं तत्राकाशादिपञ्चभ्य: स्पर्शवत्वेन भेदसिद्धौ पृथिव्यादिचतुर्थी भेदकमाह – भूतचतुष्क प्रकृतिकत्वादिति । एतदेवोदपादयति - तथा हीति । जलप्रकृतिकत्वायाह - द्रवत्वस्येति । स्यन्दनमधःसंयोगहेतुरन्तरितद्रवद्रव्यक्रिया । तेजःप्रकृतिकत्वायाह-- उष्णताया इति । न्यायलीलावतीप्रकाशः मस्तु अवयवकल्पनायां मानाभावादित्यत आह - स्पर्शवदिन्द्रियत्वादिति । नानावयवावच्छेदेनैकदा स्पर्शानुभवात् त्वचः सावयवत्वे सिद्धे तदृदृष्टान्तेन चक्षुरादीनामपि सावयवत्वमनुमेयमित्यर्थः ।

 द्रव्यान्तरमिति । पृथिव्याद्ये कैकसमवायिकारणकं न भवतीत्यर्थः । स्वरूपासिद्धिं निरस्यति — तथा हीति । द्रवत्वस्येति । स्वेदादिलक्षणस्य न्दनेन द्रवत्वमनुमाय तेन जलप्रकृतित्वमनुमेयमित्यर्थः । उष्णताया इति । पाकेनोष्णस्पर्शमनुमाय तेन तेजःप्रकृतित्वानुमानमित्यर्थः । वायुप्रकृतित्वसाधकं धृतिकम्पादि प्रत्यक्षसिद्धत्वात्रोक्तम् । 'एतेन'

न्यायलीलावती प्रकाशविवृतिः

पृथिवीति । एकैकमात्रेत्यर्थः । समवायिपदं सिद्धसाधनवारणायं । अत्र न पृथिवीमात्रसमवायिकारणकमित्यादिक्रमेण प्रत्येकमेव साध्यं जलप्रकृतिकत्वादित्यादिक्रमेण प्रत्येकमेव हेतुः, तेन यथाश्रुते हेतोरप्रसिद्धि, प्रत्येक प्रकृतिकत्वे च हेतौ घटादावेव व्यभिचार इति दूषणमलग्नकम् । अत्र च पृथिव्याद्येकैकमात्र समवायिकारणकत्व निषेधे सिद्धे जन्यत्वविशेषितेन तेन द्रव्ये शरीरे नवद्रव्यभिन्नत्वं साध्यमानं दशमद्रव्यमादाय सिद्ध्यतीति न द्रव्यान्तरमिति स्थूलान-