पृष्ठम्:न्यायलीलावती.djvu/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशांद्भासिता


एतेनोष्णं जलं शीत: शीतमयूखरश्मिरित्युपपद्यते । न चैतदुपष्टम्भकसन्निधिप्रयुक्तं, गन्धेऽपि तथाप्रसक्तेः । न च पार्थिवाप्यभागौ न सम्भूयारभेते विजातीयत्वात् आप्यतैजसभागवदिति साम्प्रतम् दृष्टान्तस्य साध्यविकलत्वात् । तयोरारम्भकत्वे आ-


न्यायलीलावतीकण्ठाभरणम्

पाकस्तेजः संयोगोऽशितपीतादिपरावृत्तिहेतुः । स चौण्ण्यापेक्षेणेत्यौष्ण्यमनुमाय तेजःप्रकृतित्वमनुमेयमित्यर्थः । घृतिकम्पादिकं स्फुटत्वाद्वायुप्रकृतिकत्वसाधकं नोक्तम् । एतेनेति । एकस्यापि नानाप्रकृति कत्वेनेत्यर्थः । न चैतदिति । शरीरे द्रवत्वोष्णत्वादीत्यर्थः । गन्धेऽपीति । तथा च पार्थिवमपि शरीरं न स्यादिति भावः । न च पार्थिवेति । पृथिवीत्वं न जलोपादानोपादेयवृत्ति जलावृत्तिधर्मत्वात् मनस्त्ववदित्यर्थः । आप्येति । विवादपदादन्यद् दृष्टान्तः पक्षोऽपि विवादपदत्वेन विशेष्यस्तथा च न सिद्धसाधनमंशतः । दृष्टान्तस्येति ।

न्यायलीलावतीप्रकाशः

नाना प्रकृतित्व साधनेनेत्यर्थः । न च पार्थिवेति । पृथिवत्विं न जलोपादेयोपादानवृत्ति जलावृत्तिधर्मत्वाद्वायुत्वदित्यर्थः । दृष्टान्तस्येति । ननु

न्यायलीलावतीप्रकाशविवृतिः

नुरोधः । ननु सजातीयारम्भक पृथिवीजलभागयोः पक्षत्वे सिद्धसा- धनं तदन्यपक्षत्वे चाश्रयासिद्धिः सिद्धौ वा बाधः विजातीययोरपि सम्भूय संयोगाद्यारम्भकतया बाधव्यभिवारौ चेत्यन्यथा व्याचष्टे- पृथिवीत्वमिति । जलोपादेयस्य यदुपादानं तद्धत्तित्वाभावः साध्यः, न जलोपादेयवृत्तीति साध्ये सिद्धसाधनं जलोपादेयस्य जलत्वेन पञ्चविजातीयत्वेन वा पृथिवीत्वानाश्रयत्वात् अत उपादानगर्भे साध्यम् । अत्र चोपादेयपदानन्तरं द्रव्यपदं प्रवेश्यमन्यथा पृथिवीजलसंयोगमादाय बाधापत्तेः । क्वचिजलोपादेयवृत्तीत्येव पाठस्तत्र च जलोपादेयमु (पा?) देयं यस्येति मध्यमपदलोपिसमासस्तेनोक्तार्थ एव पर्यवसानम् । हेतौं जलत्वे व्यभिवारवारणाय जलावृत्तिपदम् । ननु शरीरभूत चतुष्कजन्यत्ववादिमते वायुत्वदृष्टान्तासिद्धिरिति चेत, मैवम् । सजातीयारम्भकवायुवृत्यसाधारणधर्मस्य दृष्टान्तत्वादिति भावः । नम्विति । अ (न्य?) था शरीरवड्रागस्यापि विजातीयत्वापत्तेरिति