पृष्ठम्:न्यायलीलावती.djvu/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

सर्वत्राव्यपार्थिवभागे सम्भूय वस्तुकत्वसम्भवादित्यर्थः । न च भागारम्भकजलादावेव साध्यप्रसिद्धिस्तत्रापि सम्भूयारम्भकत्वास म्भवादिति भावः । तयोरिति । विजातीययोरित्यर्थः । एकस्य गुणस्या

न्यायलीलावतीप्रकाशः

भागारम्भकजलादिष्वेवैतत्प्रसिद्धं न च तत्रापि सम्भूयारम्भकत्वं तथा सत्येकै कभूतजन्यत्वस्य क्वाप्यप्रसिद्धेर्भूतचतुष्टयजन्यत्वस्य सा ध्यस्याप्यप्रसिद्धिप्रसङ्गात् । अत्राहुः । यदि शरीरारम्भकः पार्थिवो भागो न जलारभ्यारम्भक इति सामान्यतः साध्यं तदा दृष्टान्तासिद्धिः, केवलपृथिव्यारम्भकस्यापि जलवृत्तिसङ्ख्यारम्भकत्वात् । अथ जलारभ्यद्रव्यानारम्भकत्वं तत्र शरीरानारम्भकत्वमुपाधिः । अत्र शररित्वं भूतचतुष्टयोपादेयवृत्ति न वेति संशयः, तद्वतसङ्खयायां तत्प्रसिद्धिः । तयोरिति । विजातीयपरमाण्वोर्धणुकारम्भकत्वे कारण गुणस्यैकस्य सततारम्भकत्वापत्तेरनारम्भकत्वात् यणुकमगुणं स्या-

न्यायलीलावतीप्रकाशविवृतिः

भावः । यथाश्रुता [१] भिप्रायेणैवाऽयमाक्षेप इत्यन्ये । साध्यस्याप्रसिद्धीति । विजातीयारब्धस्य पृथिव्यादिविजातीयत्वेन सर्वस्य विजातीयारभ्यत्वे पृथिवत्विादिकं न क्वचिदपि व्यवतिष्ठेतेति पृथिव्यादिलक्ष णभूतचतुष्कजन्यत्वस्याप्रसिद्धिरिति भावः । न च परमाणूनां पृथिव्या द्याश्रयतया [२] तद्धत्तिचतुष्कसंख्यायामेव तत्प्रसिद्धिरिति वाच्यम्, ह्यणुकादिवृत्तित्वमेव हि पृथिवीत्वादीनां परमाणुवृत्तित्वे मानम् । तथा च द्यणुकादानां पृथिवीत्वाद्यभावे परमाणूनामपि तदभावादिति भावः । यद्यपि भूतचतुष्टयजन्यत्वं साध्यं क्वचिदपि नोक्कं तथापि स्वरूपासिद्धिनिरासाय भूतचतुष्कप्रकृतिकत्वमेव साध्यमुक्तं [३] तदेव भूतचतुष्टयजन्यत्व पदेनोक्तमिति तस्यैवोक्तक्रमेणाप्रसिद्धिद्रष्टव्या । केचित्तु पृथिव्याद्येकैकमात्रसमवायिकारणकत्वमात्रनिषेधस्य साध्यतयोक्तक्रमेण प्रतियोग्यप्रसिद्धया साध्याप्रसिद्धिरिति भावः । इत्याहुः । सामान्यत इति । द्रव्यपदा प्रवेशेनेत्यर्थः । पूर्वन्यायेन पृथिवीत्वपक्षक पूर्ववर्णितानुमाने च शरीरानारम्भकमात्रवृत्तित्वमुप्राधिरिति भावः । 'तत्प्रसिद्धि'र्भूतचतुष्टयोपादेयत्वप्रसिद्धिः । एवं च


  1. श्रुतमूलामि० ।
  2. ०थिवीत्वाद्याश्रयत० ।
  3. साध्यं युक्तमित्यपि पाठः ।