पृष्ठम्:न्यायलीलावती.djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


रब्धस्यागुणत्वं [१] स्यादिति तत्सिद्धिरिति चेन्न, तदसिद्धे । शीतोष्णयोर्भास्वरा भास्वरयो रसतदभावयो रूपरूपाभावयोर्विरोधोऽस्तीति चेन्न, एकैकशः सजातीयारम्भेऽपि विजातीयसान्नियात् नीलानीलरूपकदम्बस्य विलक्षणरूपजनकत्ववदस्यापि विचित्रकार्यजनकत्वात् । मैवम् । नीलपीता-

न्यायलीलावतीकण्ठाभरणम्

नारम्भकत्वादित्यर्थः । तदसिद्धेरिति । एकस्य गुणस्यारम्भकत्वे द्रव्यस्यागुणत्वासिद्धेरिति भावः । गन्धवन्निर्गन्धाभ्यामारम्भे तद् द्रव्यं गन्धवन्निर्गन्धं च स्यादिति गुणविरोधादनारभ्य इति शङ्कते-- शीतोष्णयोरिति । शीतोष्णाभ्यामेकैकाभ्यां विचित्रस्पर्शवदेकं द्रव्यमारभ्यं नीलादिरूपैर्विजातीयैरे कचित्रारम्भवदिति परिहरति-- एकैकश इति । मैवमिति | नीलादीनां विजातीयानां चित्ररूपानारम्भे

न्यायलीलावतीप्रकाशः

दित्यर्थः । तदसिद्धेरिति । सततानारम्भस्यापेक्षणीयसमवायिकारणाभावादप्युपपत्तेरन्यथानेकस्याप्यारम्भकत्वे तुल्यत्वा देकगुणस्थानारम्भकत्वासिद्धेरित्यर्थः । एतेनोत्पन्नड्यणुके यावत्सत्त्वमपरापरग न्धाघुत्पत्तिः स्यादित्यपि निरस्तम् । अनेकैरप्यारम्भे तुल्यत्वात् पूर्वो. त्पन्नगन्धादिकमुत्तरत्र तदुत्पत्तिप्रतिबन्धकमित्यपि तुल्यमेव । न चानेकगन्धवदारभ्यत्वं कार्यस्य गन्धवत्त्वे प्रयोजकम्, अनेकत्वस्य व्यर्थत्वात् । ननु विजातीयानामारम्भकत्वे तत्कार्यस्य नीरूपत्वनीरस- त्वादिप्रसङ्गः, रूपवदारभ्यत्वेन रूपवदादित्वे नीरूपाद्यारभ्यत्वेन नीरू पत्वाद्यापत्तौ जलत्वादिना सङ्करः स्यादित्यनारम्भकत्वमित्याह - शीतो- ष्णयोरिति । नीरूपत्वाद्यापत्तौ रूपवदाद्यनारभ्यत्वमुपाधिः । न च जातिसङ्करः, नीलपीताद्यारभ्यचित्ररूपवदेकै कारभ्यविजातीयस्यैव कार्यस्य नानाजातीयैरारम्भादित्याह – एकैकश इति । तत्रावयविनो नीरूपत्वे चाक्षुषत्वानुपपत्तेर्नीलादिविजातयविचित्ररूपवत्त्वे स्थिते विजातीयानां रूपाणां जनकत्वं क्लृप्तम्, अत्र त्वेकै कारभ्यविजातीयं द्रव्यं नाध्यक्षसिद्धमतो गुणविरोधात्, विजातीयानारम्भ इत्याह - नीलेति ।

न्यायलीलावती प्रकाशविवृतिः

संख्यात्वे विधिकोटिप्रसिद्धिरिति भावः । रूपवदादीति । यद्पि गन्ध-


  1. ० स्यागुणवत्त्वं स्या० ।