पृष्ठम्:न्यायलीलावती.djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
न्यायलीलावती


दिरूपकदम्बस्य यथा विचित्ररूपजनकत्वमध्यक्षसिद्धं न तथा पृथिव्यादीनां विचित्रकार्यजनकत्वं, भूजलप्रभवे वस्तुनि


न्यायलीलावतीकण्ठाभरणम्

पटादेररूपित्वे प्रत्यक्षताक्षतिरिति तत्र तथास्तु, द्रव्ये तु विजातीयारम्भे न प्रमाणमित्यर्थः । नन्वेकस्य गुणस्यारम्भकत्वे सततोत्पत्तिप्रसङ्गवदुभयारम्भकत्वेऽपि तथा तत्र समवायिकारणापेक्षायामेकगुणारम्भेऽपि तथा तत्र गुणान्तरस्य प्रतिबन्धकत्वकल्पनायामेकारम्भेऽपि तथा । तथा च साधकबाधकमानाभावाद्वि-

न्यायलीलावतीप्रकाशः

नन्वध्यक्षाभावेऽपि पृथिवीत्वं जलोपादेयवृत्ति पृथिवीनिष्ठात्यन्ताभावाप्रतियोगित्वात् द्रव्यत्ववदित्यनुमानं स्यादित्यत आह - भूजलेति । अपृथिर्वावृत्तित्वमत्रोपाधिरित्यर्थः । प्रत्युतानारम्भकत्वे मानमस्ति । तथा हि पृथिवीसमवेतद्र्व्यं न निर्गन्धसमवेतं गन्धवत्त्वात् पृथिवीमात्रारब्धयणुकवत् । न च दृष्टान्तासिद्धि, विजातीयैरारम्भेऽपि

न्यायलीलावती प्रकाशविवृतिः

रसयोर्नैवं विजातीयगन्धरसवदारब्धे व्यभिचारात् तथापि विजा- तीयगन्धवदसहकृतगन्धवदारभ्यत्वं तत्र हेतुः । एवं रसेऽपीति भावः । 'सङ्करः' सङ्करप्रसङ्गश्चेत्यर्थः [१] तेन नीरसत्वादिप्रसङ्ग इत्यनेन समुच्चयो लभ्यते । पृथिवीत्वमिति । जलोपादेयं ( उपादेयं ?) यस्येति पूर्व वन्मध्यमपदलोपी, अन्यथा तन्मते शरीरस्य विजातीयतया बाघापतेरित्यवधेयम् ।

 पृथिवीति । अत्र पृथिवीपदं सकलपृथिवीपरमन्यथा कपालत्वादौ व्यभिचार इति मिश्राः । वयन्तु सामान्याभावस्यैव हेतुतया न व्यभिचारप्रसङ्गः, अन्यथा हेतुसमानाधिकरणेत्यादिव्याप्तिलक्षणे- ऽपि सकलपदप्रक्षेपापलेरिति ब्रूमः । न च पृथिवीनिष्ठेस्यस्य स्वरूपासिद्धिवारकतया व्यर्थता, विशिष्टाभावत्वात् । अपृथिवीति । पृथिव्यवृत्तित्वमित्यर्थ: [२] । विजातीयैरिति । अन्यथा पूर्वन्यायेन पृथिवीत्वाद्यव्यवस्थितेरिति भावः । तथापि मानुषशरीरस्य पार्थिवत्वं विनिगकं नोक्तमतस्तदाह--- -तत्र मानुषेति । ननुः शरीर-


  1. सङ्करप्रसङ्ग इत्यर्थ इति पाठान्तरम् ।
  2. पृथिव्यन्यकृ० |