पृष्ठम्:न्यायलीलावती.djvu/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


विलक्षणे मानाभावात् ततो गन्धवतां गन्धवत्पृथिवीजातीयजनकत्वनियमात् जलस्य निर्गन्धजनकत्वनियमस्या विप्लुतत्वात् एकं शरीरं गन्धवन्निर्गन्धक्षितिजलादिजातिमच्च स्यादिति विरोधात् । किञ्च कार्यस्य वैलक्षण्यं गन्धवन्निर्गन्धतादात्म्यमुभयबहिर्भूतं वा अन्यतररूपं वा । नाद्यौ, विरोधात् । नेतरः, गन्धवता गन्धवज्जननेऽगन्धवताप्यगन्धोत्पादनात् अन्यतररूपत्वानुपपत्तेः । एतच्चित्ररूपेऽपि तुल्यमिति चेन्न, तत्र नीलस्यानीलचित्ररूपजनकताया अनु


न्वायलीलावतीकण्ठावरणम्

जातीयारम्भसन्देहः स्यादित्यनुशयेन नियममाह - तत इति । गन्धवद् गन्धवद्भिवारभते गन्धवन्च गन्धवद्भिरेवारभ्यते इति दर्शनबलान्नियमस्थितौ न सम्भूयारम्भः । किं च निर्गन्धं निर्गन्धमेवारभते निर्गन्धं च निर्गन्धैरेवारभ्यत इति दर्शनान्नियमसिद्धौ उभयारब्धं न गन्धवत् स्यात् न वा निर्गन्धमुभयस्वभावं वा । भावे वा तत्र पृथिवीत्वं जलत्वं च सङ्कीर्य्येतेत्यर्थः । ननु पृथिवीत्वं जलोपादेयवृत्ति पृथिवीनिष्ठात्यन्ताभावाप्रतियोगित्वात् द्रव्यत्ववदित्यनुमानात् विजातीयारम्भोऽस्तु । किं च विजातीयारब्धं विलक्षणमेव स्यात्तथा च क्क जातिसाङ्कर्य्यपीत्यत आह - किञ्चेति । नाद्याविति । उभयतादात्म्यमुभयवहिर्भावश्च विरोधान्न सम्भवति "परस्परविरोधे हि न प्रकारान्तरस्थिति” रित्यर्थः । गन्धवदिति । पूर्वोक्तनियमबलादित्यर्थः । ननु नीलारब्धं नीलमेव पीतारब्धं पीतमेवेतिनियमात् चित्रमेव रूपं न स्यादित्याह - एतदिति । तत्र प्रत्यक्षप्रमाणस्योक्तत्वान्न साम्यमित्याह — तत्रेति ।

न्यायलीलावतीप्रकाशः

सजातीयैरारम्भाभ्युपगमात् । न चेदमप्रयोजक मित्याह -तत इति । एकैकारस्यात् क्षितिजलाद्यारम्भे वैलक्षण्यं विकल्प्य दूषयति - किच्चेति । न च जातिविशेष एव वैलक्षण्यं तदननुभवात् । न च विजातीयैरारम्भे सति तत्कल्प्यं तत्र वाघकस्योक्तत्वात् । तत्रेति । तत्र नीलादिवि-