पृष्ठम्:न्यायलीलावती.djvu/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
न्यायलीलावती


भवसिद्धत्वात् ।

 तद् [१] द्विविधं योनिजमयोनिजं च । शेषे प्रमाणं नास्तीति चेन्न, पृथिवी अयोनिजशरीरारम्भिका आरम्भहेतुत्वात् जलव-


न्यायलीलावतीकण्ठाभरणम्

 तदिति । मानुषं शरीरमित्यर्थः । वृक्षादिशरीरस्यायोनिजत्वेऽपि मानुषस्यायोनिजं शरीरमाक्षिपति - शेष इति । अयोनिज इत्यर्थः । पृथिवीति । न च घटादौ बाधः, कपालादौ च व्यभिचारः, दृष्टान्तश्च साध्यविकल इति वाच्यम्, पृथिवीत्वमयोनिजशरीरारम्भकवृत्ति स्पर्शवद्धत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात् जलत्ववदितिविवक्षि

न्यायलीलावतीप्रकाशः

लक्षणकर्बुररूपस्यानुभवसिद्धत्वादनन्यगत्या कर्बुरत्वजातिः कल्प्यत इत्यर्थः ।

 तत्र मानुषादिशरीरे गन्धस्यानाशमनपायित्वात् ल्केदादीनां च नाशात् पृथिवीसमवायिकारणकत्वं स्थितम् । शरीरत्वं च न जातिः किन्तु साक्षात्प्रयत्नजन्यक्रियावदन्त्यावयविमात्रवृत्तिजातिमत्त्वम् । पार्थिवकुम्यादिशरीरस्यायोनिजत्वे प्रत्यक्षसिद्धेऽपि मानुषस्यायोनिजशरीरं साधयति – पृथिवीति । ननु प्रसिद्धपृथिवीपक्षत्वे बाधः, अन्यत्राप्रसिद्धिः । न च पृथिवीत्वमयोनिजशरीरवृत्तीति साध्यमप्रसिद्धेः । शरीरारम्भकत्वादिति च योनिजशरीरमात्रारम्भकैरवयवैर्व्याभिचारि ।

न्यायलीलावतीप्रकाशविवृतिः

त्वं तावज्जातिरनुगतमतेस्तथा च तदाश्रयस्य पृथिवीत्वादिस्वीकारे जातिसङ्करः स्यादिति पृथिव्यादिविजातीयमेव तदुपेयमत आह--- शरीरत्वं चेति । साक्षादिति । तादृशी क्रिया (चेष्टा ?) । चेष्टात्वं च जातिविशेषः । अन्यथा प्रयत्नजन्यत्वस्यैव दुर्ग्रहत्वापत्तेः । अत्र चेष्टा चांन्त्यावयविमात्रं चेति द्वन्द्वसमासेन चेष्टावद्वृत्तित्वे सति अन्त्यावयवि- मात्रवृत्तिर्या जातिर्मानुषत्वादिस्तद्वत्वामित्यर्थः । अत्र पाषाणमध्यवर्तिनिश्चेष्टभेकशरीरादौ [२]खण्डावयविमृतशरीरे चाव्याप्तिरिति जातिगर्भता । तत्रापि तादृशभेकत्वमनुष्यत्वादिजातिसत्त्वान्नीव्याप्तिः, द्वन्द्वसमासानाश्रयणे च साऽव्याप्तिस्तदवस्था निश्चेष्टवृत्तिजा-


  1. तच्च ट्टि० ।
  2. त्तिनि भेकशरीरे ।