न्यायलीलावतीकण्ठाभरणम्
तत्वात् । जलीयं च शरीरं बरुणलोकेऽस्तीत्यागमसिद्धत्वान्न दृष्टान्तस्य साध्यवैकल्यम् । यद्वा अहं योनिजमदीयशरीरान्यपार्थिवशरीरवान् संसारित्वात् मैत्रवदितिविवक्षितत्वात् । दृष्टान्तासिद्धि-
न्यायलीलावतीप्रकाशः
न च रूपसमानाधिकरणद्रव्यत्वसाक्षाव्घप्यजातित्वात्पृथिवीत्वस्याऽयोनिजशरीरवृत्तित्वमनुमेयं पृथिवीभिन्नवृत्तित्वस्योपाधित्वात् । नापि कपालं अयोनिजशरीरवृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत् रूपवद्धत्तिद्रव्यत्वसाक्षाव्द्याव्यजातिमत्त्वात् जलवदिति वाच्यम्, निर्गन्धवत्वोपाधेः । पृथिवीजलवृत्तिजातिसिद्धावर्थान्तर-
न्यायलीलावती प्रकाशविवृतिः
तेश्चेष्टान्मात्रवृत्तित्वाभावात् । घटादावतिव्याप्तिरिति प्रथमं विशेषणम् । करादावतिव्याप्तिरित्यन्त्येति । सत्तादिकमादाय पूर्वोक्तातिव्याप्तिद्वयतादवस्थ्यमिति मात्रेति । शरीरघटान्यतरत्वमादाय घटातिव्याप्तिरिति जातीति । नरसिंहशरीरे च नरत्वादिजातेर्जातिसङ्करतथा तदनङ्गीकारेऽपि वाल्यादिभिन्नशरीरवृत्तिजातिमादायैव लक्षणगमनादिति दिक् । न चेति । मानुषेति शरीरविशेषणं बोध्यमतो न कृम्यादिशरीरेणार्थान्तरम् । अत एवाह - अप्रसिद्धेरिति । यद्यपि सर्गाद्यकालीनमानुषशरीरवृत्तिधर्म एवोक्तसाध्यप्रसिद्धिस्तथापि प्रलयेऽपि विप्रतिपत्तिरेवत्यनुसान्धनेदमुक्तम् । आरम्भकत्वादिति [१] यथाक्ष्रुतहेतोस्तन्त्वादावेव व्यभिचार: स्फुट इति तात्पर्यार्थमनूद्य दूषयति--- शरीरारम्भकत्वादिति चेति । न चेति । यद्यप्यत्रापि मानुषेति विशेष( ण ? ) मन्यथाऽर्थान्तरत्वात्तथा चाप्रसिद्धिरेव तथापि दूषणान्तरदानाय पुनराशङ्का । यद्वा कृम्यादिभिन्नत्वमात्रमन्त्र विशेषणं तथा च नार्थान्तरं न वा साध्याप्रासद्धिः, जलादिशरीरस्यायोनिजन्यत्वात् । अत एव वक्ष्यमाणोपाधेरपि जलत्वादावेव साध्यव्यापकता । अत एव च न कृम्यादिशरीरवृत्तिधर्मे तदुपाधे: साध्याव्यापकत्वमिति । पृथिवीजलेति । यद्यपि पृथिवत्वस्य योनिजशरीरवृत्तित्वे [२] साध्ये नोक्त्तार्थान्तरशङ्का तथाप्येतदनुमानवलादेव पृथिवीत्व-