पृष्ठम्:न्यायलीलावती.djvu/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
न्यायलीलावती


दिति तच्सिद्धेः । तदसिद्धमिति चेन्न, जरं शरीरजनकं इन्द्रिया-


म्यायङीलावतीकण्ठाभरणम्‌

माशाङ्कते- तदिति । जलमिति । जलत्वं शरीराम्भकवृत्ति स्परौवद्धत्तिद्रभ्यत्वसाक्षाद्व्याप्यजातित्वात्‌ पृथिदीत्ववदिव्यर्थः । अन्यथा

न्यायङीलावतीप्रकाशः

त्वाच्च । अत्राहुः । अहं मदीययोनिजान्य पार्थिवदशरीरवान्‌ संसरित्वात्‌ चेत्रवत्‌ । विपक्षे वाघकं च वक्ष्यति । यथाक्ष्रुतम्षिपतितदिति । जले साभ्यमदृष्टमित्यर्थः । जलमिति । ननु प्रसिद्धजपश्चत्वे बाधोऽन्यत्राप्रसिद्धिः। न च जलत्वं शारीरवृत्ति रूपवहृत्तिद्रव्यत्वसाक्षाव्घाप्यजातित्वात्‌ पृथिवीत्ववदिति वाच्यम्‌, गन्घवद्धत्तित्वस्योपाधित्वात्‌ । जलपरमाणवः शरीरारम्भकाः आरम्भकपरमाणुत्वादिति निमित्तकारणत्वस्सिद्धावर्थान्तरम्‌ । न च शरीरसमवायिका-

न्यायलीरवतीप्रकाशविंवृतिः ।

स्योभयसाधारणत्वमायातम्‌। तथा च जलस्यायोनिजशरीराम्भक तायाः सिद्धत्वादथौन्तरं स्यादिति भावः। एवं च यथाश्चुतेनैवोपपत्तौ यत्तादशजातिमत्त्वेन शरीरत्तिद्रग्यत्वसाक्षाद्व्याप्यज्ञातिमत्त्वं पृथिव्यामनुमेयमिति शाङ्कायामेतत्फक्किकावतारः । यच्च तादराशङ्कापूर कपाठकस्पनं तदयुक्तम्‌ । अहमिति । मदीयेति साध्यपरसिद्धये । योनिज्ञेति बाधवारणाय । पार्थिवेति जलायोनिजशरीरेण सिद्धसाधनवारणाय । कम्यादिभिन्नत्वमपि शरीरविशेषणम्‌ , अन्यथा कृम्यादिशरीरेण सिद्धसाधनापत्तेः । शरीरपदं च स्वनिष्ठभोगावच्छेदकपरम्‌। अन्यथेश्वरस्यादिकार्यवशाच्छरीरित्वे [१]आत्मत्वमास्यैव हेतुत्वसम्भवे संसात्वादिव्यन्न व्यर्थतापत्तेः । सुखसमवायिकारणतावच्छेदकजातेरखण्डाया एव संसारित्वपदेनाभिधानमित्यपि बदन्ति । अहं मदीयेत्यनुभानेऽलग्नकत्वादाह--यथाक्ष्रुतमिति । गन्धवदित्ति। गन्धयोग्येव्यथेः । तेन विरूद्धगन्धवदारब्धशरीरवृत्तिधर्मे न साध्याव्यापकत्वम्‌ । आरम्भकेति । कपाले व्यभिचारइति परमाणुपदम । मनसि व्यभिचारवारणायारस्मकेति । द्रव्यार-


  1. ०श्वरस्यापि काय्पैवशा० ।