पृष्ठम्:न्यायलीलावती.djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
न्यायलीलावतीकण्डाभरण-साविन्रृतिभकाशोद्भसिता


रम्भकत्वात्‌ पृथिवीवदिति तत्सिद्धिः । अन्यथा इन्द्रियमपि नारभेत, अदृष्टरूपत्वात्‌ । आप्यं शरीरं योनिजमिति चेन्न, भमण्डले बुद्बुदोपमदेहानुपलब्धेः । करकादिवघ्मातेबद्धद्रव-


न्यायरीलरावतीकण्ठाभरणम्‌

बाघन्यभिचारौ स्याताम्‌! भन्ययेति । इन्द्रियान्तरारस्भक[द्रव्य)वृ तिद्रव्यत्वसाक्षाद्याप्यजातेः शरीराभ्भकवृत्तित्वभ्याप्पत्वेऽद्दष्टत्वमात्रं यदि बाधकं तदेत्यर्थः । आप्यमिति । आप्यमपि शरीरं योनिजमिति योज्ञना। तथा च साध्यविकलो दृष्टान्त इत्यथैः। योग्याजुपलब्धिबाधमाह- भूमण्डल इति । अन्यमुवनच्चुत्तत्वान्न योग्यानुपलब्धिरिति

न्यायलीलावतीप्रकाशः

रणल्वं साध्यं आरभ्यारम्भकवादानभ्युपगमात्‌ , परम्परासमवायिकारणत्वस्य दुर्वचत्वात्‌ निर्गन्धत्वेन प्रतिरोधाच्च । अत्राहुः जलत्वं न शारीरानारम्भकजलमात्रवृत्ति स्पर्शवद्धतिद्रभ्यत्वसाक्षाघाप्यज्ञातित्वात्‌ मनस्त्वदित्यत्र तात्पर्यम्‌ । अन्यथेति । यद्यदष्टत्वान्न शरीसारम्भकत्वमित्यथः । अप्यं शरीरमिति । तथा च साध्यविकलो दषएान्त इत्यर्थः । भूमण्डल इति । न चान्यन्राऽप्यं शरीरं योनिजं

न्यायरीलवतीप्रकाशविदृतिः

स्मकेत्यर्थः । आरभ्येति । परमाणोसहत्य शरीरम्भकत्वे शरीरस्य झणुकबदपरत्यक्षतापत्तिरिति व्घणुकादिकमारभ्य ते शरीरमारभन्त इति वक्तम्यमेतच्च नाभ्युपेयत इति मावः । एवं च पक्षे बाधो हेतोर्विख्द्धत्वं चेति भावः । निर्गतेनेति । गन्धायोग्यत्वेनेत्यथः । प्रतिरोधाव्‌' सत्प्रतिपक्षात्‌ । जलत्वमिति ! अन्न शरीरारभ्भकवृत्तित्वे साध्ये गन्धवद्धत्तित्वमेवोपाधिरिति नञद्वयगर्भता । अत्र च व्योमादावेव साध्यान्यापकत्वमुक्तोपाधेः। यद्यप्येवंसाध्येऽपि जातित्वावाच्छिनष्ताध्यत्यापकत्वमुक्तोपाघेरक्षतमेव तथाप्यवच्छेदकावच्छिन्नत्व प्रतीतौ तदुपाधिनिरासः प्रयोज्ञनं सम्भवस्येव । व्यर्थता तु विशिष्ठमवत्वेनैव निरसनीथा । विशिष्ट्था(पकत्व प्रतीतिदशावामिन्द्रियारस्मकत्वान्यथादुपपस्यादितकोदेव तन्निरास इति मावः । अत्र साभ्ये यदि जकपदं तदा हेतौ स्परीबद्धत्तित्वपदशूस्यः पाठः । मनस्त्वबदिति च इष्टान्तपाठः। न चन्यतरेति । इदसुपलक्ष-