पृष्ठम्:न्यायलीलावती.djvu/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
न्यायलीलावती


त्वमिति चेन्न, भौमेनोष्मणा विलयनाभावात् । भूवर्त्तिनां शरीराणां गन्धवत्वेन पार्थिवत्वात् तदौपाधिकं किं न स्यादिति चेन्न, आनाशमनपगामित्वात् । सुवर्णगुरुत्ववत् स्यादिति चेन्न, तत्र बाघकसत्वात् । अन्यथा धर्मधर्मिव्यवहारोच्छेदप्रसङ्गात् ।


न्यायलीलावतीकण्ठाभरणम्

चेद् योनिजशरीरस्य भूमण्डलवृत्तित्वे सति पार्थिवत्वनैयत्यादिति भावः । करकादिवदिति । तथा च उपलभ्यमानमेव शरीरमाध्यं स्यादिति नानुपलब्धिबाध इत्यर्थः । आप्यद्रवत्वस्य हिमकरकादौ भौमोष्मणा विलायनीय त्वदर्शनान्नैवमित्याह - भौमेति । आप्यशरीरस्य भूमण्डलस्थत्वे बाधकान्तरमाह - भूवर्त्तिनामिति । तदिति । गन्धवत्त्वमित्यर्थः । गन्धस्य यावच्छरीरस्थितिकत्वेन स्वाभाविकत्वावधारणादिति भावः । यावद्द्रव्यभाव्यपि गुरुत्वं सुवर्णे यथौपाधिकं तथैव तत् स्यादित्याह – सुवर्णेति । तत्रेति । अत्यन्तानलसंयोगानुच्छिद्यमानद्रवत्वाधिकरणत्वेन तैजसत्वसिद्धौ तत्र गुरुत्वस्यौपाधि कत्वसिद्धेरित्यर्थः । अन्यथेति । बाधके सत्यपि स्वाभाविकत्वे तद्विरहेऽप्यौपा-

न्यायलीलावतीप्रकाशः

स्यादिति न योग्यानुपलब्धिः । यच्छरीरं योनिजं तद् भूमण्डलस्थमेव यच्च तादृशं तत्पार्थिवमेवेति व्याप्तेः । करकादिबदिति । तथा चास्मदादीनामेवाप्यं योनिजं शरीरं स्यात् पार्थिवत्वव्याप्यत्वं तस्यासिद्धमित्यर्थः । व्याप्तौ मानमाह---भूवर्त्तिनामिति । तदिति । गन्धवत्त्वमित्यर्थः । सुवर्णेति । आनाशमनपगाम्यप्यौपाधिकमिति शेषः । अयो-

न्यायलीलावती प्रकाशविवृतिः

णं दृश्यमानस्यापि (शरीरस्य) पार्थिवावयवोपष्टम्भेन जलबुद्बुदोपाधित्वाभावादित्यपि द्रष्टव्यम् । अत एवोत्तरे यश्चेत्यादिकमपि सङ्गच्छते । इति व्याप्तेरिति । शुक्रशोणितयोग (रूप) विशेषवत्त्वेन पार्थिवत्वनियमेन तज्जन्यं शरीरं पार्थिवमेवेति विपक्षबाधकमत्र । यद्यपि शरीरं न शुक्रशोणितजन्यं किन्तु तद्ध्वंसजन्यमेव तथापि यद्रव्येत्यादिव्याव्यवष्टम्भेन पार्थिवत्वं तादृशशरीरस्येति भावः । पृथिव्या अयोनिजशरीरारम्भकत्वं प्रकृते प्रक्रान्तं दृष्टान्तसिद्धर्थे जलस्य वा, तदुभयमपि विशेष कारेणोक्तप्रमाणादसम्भवीत्यत आह-अयोनिज.