शैत्यादिना [१]देहशोषे निवृत्युपपत्तौ तदेव बाधकम् । तथा हि न तावद् वायवीयं, रूपवत्त्वात् । न तैजसम्, दहनसंयोगे भस्मी भावात् । न आप्यं कदाचिदनुपलभ्यस्वाभाविकद्रवत्वात् । ततोऽपामयोनिजशरीराम्भकत्वं दृष्टम् । स्वर्गसुखं कस्यचिद्देहिनो भोग्यं सुखत्वात् । न चास्मदादिस्तथा[भवितुमर्हति] । भूचराणां [२] सप्तद्वीपेश्वराणामपि तादृशसुखानामभावात् । न चायं नित्यो देहोऽमुक्तिमाप्तेः [३] । न चादृष्टोपग्रहनिवृत्तौ मानसो न्याय
न्यायलीलावतीकण्ठाभरणम्
धिकत्वे वेत्यर्थः । भृतान्तरप्रकृतिकत्वे बाधकान्तरमाह - शैत्यादीनामिति । द्रव्यत्वस्य स्वाभाविकत्वस्थितावाह – रूपवत्वादिति । हिमकरकादौ व्यभिचारवारणाय कदाचिदिति । तत इति । भूवर्त्तिशरीराणां पार्थिवत्वे सिद्धे जलस्य चेन्द्रियारम्भकत्वेन शरीराम्भकत्वव्यवस्थितौ यज्जलीयं शरीरं लोकान्तरे तदवश्यमयोनिजमिति पार्थिवशरीर स्यायोनिजत्वे साध्ये जलं दृष्टान्तो न साध्यविकल इत्यर्थः । अयोनिजशरीरसाधनाय मतान्तरमाह- स्वर्गसुखमिति । अन्यथासिद्धिं निरस्यति – न चेति । तादृशेति । दुःखासम्भिन्नत्वादिविशिष्टेत्यर्थः । न चेदानीं भूतलवर्त्तिन एव देहस्य क्रमेण स्वर्ग सुखोपभोगोऽस्त्विति वाच्यमित्याह – न चेति । अमुक्तीति । देहस्थितौ दुःखापत्तेरित्यर्थः । यावद्दष्टोपग्रहं मन इव शरीरमपि नित्यं दुःखाजनकं स्यादित्याश-
न्यायलीलावतीप्रकाशः
निजे शरीरे साधनान्तरमाह - त्वर्गेति । तादृशेति । अभिलाषोपनीतत्वादिविशिष्टेत्यर्थः । अयमिति । भूमितलवृत्तीत्यर्थः । मानसो न्याय
न्यायलीलावतप्रकाश विवृतिः
इति । तथा चायोनिजशरीरसिद्धौ सामान्यतः स्वतन्त्रमेव मानमिदं न तु पूर्वोपष्टम्भकमिति भावः । अयमित्यस्य स्वर्गसुखावच्छेदक इत्य ये शङ्कैयमनुपपन्ना नित्यस्याप्ययोनिजशरीरतयोपक्रान्तायोनिजशरीरसाधनानास्कन्दकत्वादत आह----भूमीतलवर्त्तीत्यर्थ इति । तथा च