पृष्ठम्:न्यायलीलावती.djvu/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
न्यायलीलावती


इति वाच्यम्, कल्पनागौरवात् । न च तद्योनिजं, गर्भवासादिदुःखवेदनादिभिः स्वर्गित्वव्याघातात् । तन्न दुःखहेतुरिति चेन, अदृष्टकल्पनापत्तेः, शिववरुणमहेन्द्रादि [१] भुवनसुखाभिलाषात् । पौराणिक विधिप्रवृत्तेश्च [२] । न च मर्स्यातिशयितसुखप्रतिपादनपरं तदिति वाच्यम्, दुःखेऽपि तथाप्राप्तौ महापात---


न्याय लीलावतीकण्ठाभरणम्

ङ्कयाह --- न चेति । तदिति । गर्भवासादिकमित्यर्थः । शिवादीनां स्वर्गित्वेन दुःखासम्भेदात् व गर्भवासादिसम्भावना । अन्यथा महेन्द्रादिपदाभिलाषोऽपि न स्यात् न स्याच तत्कामस्य पौराणिक बिधि प्रवृत्तिरित्याह – शिवेति । नन्वैहिक सुखापेक्षया पुराणमतिशयितसुखमात्रपरं स्यादित्यत आह - न चेति । तर्हि कुम्भीपाकक्रकचदारणादिप्र--

न्यायलीलावतीप्रकाशः

इति । नित्यत्वेऽपि व्यापारनिवृत्तिरित्यर्थः । कल्पनेति । शरीरानित्यत्वस्य मानसिद्धत्वादित्यर्थः । स्वर्गित्वेति । स्वर्गसुखस्य दुःखासम्भेदादित्यर्थः । अदृष्टेति । गर्भवासादिदुःखजनकत्वस्य मानसिद्धत्वादित्यर्थः । न चैहिकत्वं तत्र तन्त्रं सामान्ये बाघकाभावात् । न त्वागमादेव गर्भवासादीनां दुःखाजनकत्वं सेत्स्यतीत्यत आह -- शिववरुणेति । आगमस्य स्वर्गमात्रप्रदर्शनपरत्वात् ततस्तदसिद्धेरैहि कसुखाविशेषात्तदर्थं बहुवित्तव्ययायाससाध्ये कर्मणि प्रेक्षावतामप्रवृत्तेश्चेत्यर्थः । दुःखेऽपीति । नरकप्रतिपादकागमबोधितेऽपि दुःखेऽपि ।

न्यायलीलावती प्रकाशविवृतिः

भूमीतलवर्त्तिनित्यदेहावच्छेदेनैव स्वर्गे सुखं स्यादिति भूतलवर्त्तिनामित्यादि पूर्वोक्त मात्राक्षेपपरेयं शङ्केति भावः । वस्तुतः शुक्रशोणितसन्निपातानपेक्षसामग्रीज शररिसाधन मेवोपक्रान्तमिति परिशेषोपयुक्तत्वेन नित्यदेहस्यापि निराकरणीयतयाऽयमितिमूलस्य स्वर्गसुखावच्छेदक इत्येवार्थ इति प्रतिपादयति तत्सादृश्यस्येति । उक्तयुक्त्या तस्य देहत्वे भेदगर्भसादृश्यस्य तत्राभावादित्यर्थः ।


  1. शिवविष्णुम० ।
  2. पौराणिकविधिवाक्यात पुंसां प्रकृत्तेरिति प्रभाकरः ।