पृष्ठम्:न्यायलीलावती.djvu/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


जलादिप्रति बन्दीग्रहः, स्नेहादिसमवायिकारणत्वेन [१] भिन्नजाती-


न्यायलीलावतीकण्ठाभरणम्

तीयत्वसाधनादित्याह - रर्त्रेहादीति । आदिपदात् सांसिद्धिकद्रवत्वशीत

न्यालालावतीप्रकाशः

न्तत्वम्, परस्परवृत्तिद्रव्यत्वसाक्षाद्याव्यजात्यभावे [२] च साध्ये सरित्पाषाणयोरंशतः सिद्धसाधनम्, पृथिवीभेदे च साध्ये सरिदादावंशतः सिद्धसाधनमित्यपास्तम्। विलक्षणधीवेद्यत्वं यदि पृथिवीत्वाद्यनाक्रान्तत्वप्रमितिगोचरत्वं तर्ह्यसिद्धिः, तादृशधीगांचरत्वमात्रं चानैकान्तिकमित्याह – भुजगादीति । स्नेहादीति । यद्यपि स्नेहसमवायिकारणत्वं परमाणौ नास्ति, न च तत्रापि स्वरूपयोग्यताऽस्त्येव स्ववृत्तिस्नेहस्य च प्रतिबन्धकत्वान्न तत्र स्नेहोत्पत्तिरिति वाच्यम्, नित्यस्य स्वरूपयोग्यस्य सहकारियोग्यतावश्यम्भावात्, तथापि

न्यायलीलावतीप्रकाशविवृतिः

तादृशेति । विजातीयत्वेत्यर्थः । तथापीति । अनित्यस्नेहसमवायिकारणता-


  1. ननु स्नेहत्वं कार्य्या कार्य्यवृत्तितया न जन्यतावच्छेदकम् । न चानित्यस्नेहसमवायिकारणतावच्छेदकत्वेन आप्यद्यणुकसिद्धस्य जलत्वस्य स्पर्शवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वेनारम्भकपरमाणुवृत्तित्वमनुमेयम्, परमाणोस्तज्जातीयत्वे नित्यस्य स्वरूपयोग्यतया फलोपधानप्रसङ्गात् । यदि स्वरूपयोग्यत्वेऽपि सहकारिविरहात काय्यार्नुत्पादस्तदाऽनित्यस्पर्शसमवायिकारणतया भूतचतुष्टयवृत्तिरेका जाति: स्यात् । सैव च द्रव्यत्वसाक्षाद्व्याप्यतया परमाणुवृत्तिस्तत्र फलानुत्पादोऽसमवायिकारणविरहात् पाकजस्पर्शादिकं प्रति च पृथिव्या एव समवायिकारणत्वात् । द्रव्यस्य तथात्वे तु जलत्वमपि न स्यात् तुल्यन्यायत्वादिति । अत्र वदन्ति जलत्वतेजस्त्वे तावत् प्रत्यक्षत एव सिद्धे । वायुत्वं च शब्दादिकार्य्यविशेषजनकतावच्छेदकतया । एतान्येव च यथायोगमनित्यानां स्नेहशीत स्पर्शसांसिद्धिकद्रवत्वानामुष्णस्पर्शभास्वररूपयोर्विजातीयस्य चानुष्णाशीतस्पर्शस्य समवायिकारणताया अवच्छेदका नीति नित्यात् परमाणोर्व्यावर्त्तमाने आद्यद्व्यणुके जातित्रयं भूतत्रिकवृत्ति सिध्यति । तदवच्छिन्नं प्रति समवायिकारणताया अवच्छेदकत्वेन तद्व्यापकमपरं जातित्र्यं परमाणुसाधारणं समनियतयोग्य व्यक्तिकत्वाद् व्यञ्जकाभेदाच्च न जात्योमिथोभेदग्रहः तज्जातित्रयसङ्कराच्च नानित्यस्पर्शसमवायिकारणतावच्छेदकत्वनेकैजातिसीद्धिः । अपि च जलत्वादीनि तावत् परमाणौ वर्त्तन्ते, न वा वर्त्तन्ते चेत् सिद्धं समीहितम् । अनित्यजलत्वादिना च तज्जातीये समवायिकरणत्वं नो चेत् तदवच्छिन्न समवायिकारणतावच्छेदकत्वेनैव परमाणुसाधारणजात्यन्तरसिद्धिः । तदेव जलादिपदप्रवृत्तिनिमित्तं जलत्वादीनां जलत्वादिव्यापकजातित्वेन मूर्त्तत्वादिजातिविरहे च स्पर्शवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यातित्वेन च परमाणुवृत्तित्वसिद्धि । तासामेवानित्यत्वविशेषितानामनित्यस्नेहादिसमवायिकारणतावच्छेदकत्वमित्यपि केचित् । इति दीधित्तिः ।
  2. एकवृत्तितादृशजात्यभावेऽपरत्रापरवृत्तितादृशजात्यभावे च तत्र साध्य इत्यर्थः । इति दीधितिः ।