ताधिकरणमेव । अन्यादृशस्पर्शानुपलब्धेः । तत्र द्वितीये अनित्यताब्याघातः । प्रथमे तेजस्त्वं द्वितीये जलत्वं चरमे क्षितिपवनयोरन्यतरत्वमिति नवबहिर्भावाभावात् । वज्रं तु पार्थिवमपि
न लोहलेख्यं [१] शक्तिभेदात् अविन्धन तेजोव दित्यादि विस्त रस्तूह्यो
बहुलत्वात् [ न लिखित : ] । [ इति ] विषयः ।
न्यायलीलावतीकण्ठाभरणम्
णमित्यर्थः | अन्यादृशेति । उक्तत्रयस्पर्शस्यैव प्रामाणिकत्वादित्यर्थः । द्वितीय इति । स्पर्शानधिकरणद्रव्यत्व इत्यर्थः । चरम इति । अनुष्णाशीतस्पर्शवत्व इत्यर्थः । शक्तिभेदादिति । स्वभावभेदादित्यर्थः । स च स्वभावभेदोऽत्यन्तनैविड्योन्नेयो घटादिव्यावृत्तः । एवं च लौहलेख्यत्वे पृथिवीत्वं नतन्त्रं किन्तु प्रशिथिलावयवत्वमित्यर्थः ।
न्यायलीलावतीप्रकाशः
च लोहलेख्यत्वे शिथिलावयवसंयोगजन्यत्वं प्रयोजकं न पृथिवीत्वमिति न तदभावमात्रादपार्थिवत्वम् । न च वज्रं न पार्थिव लोहलेख्य वृत्तिपृथिवीत्वव्याप्यजातिशून्यत्वादिति वाच्यम्, व्यर्थविशेषणत्वात् जातिशून्यता [२] मात्रस्यैव व्याप्यतावच्छेदकत्वादित्यर्थः ।
न्यायलीलावतीप्रकाशविवृतिः
वाधकामावे कार्य पृथिवीत्वेन पार्थिवत्वानुमाने कार्यकारणाभावात्मकविपक्षबाधकेन बलवति पक्ष एवोपाधितदभावयोः साध्याव्यापकत्वमनैकान्तिकत्वं चेति भावः । जातिशून्यत्वेति । पृथिवीत्वव्याप्येति विशेषणस्य स्वरूपासिद्धिवारकत्वेऽपि व्यर्थत्वादिति भावः । न च जात्यन्तर्भावे व्यर्थतया धर्मशून्यत्वमात्रमुत्तरप्रतीकार्थ इत्यप्रसिद्धिवारकतया पूर्वदलं सार्थकमिति वाच्यम्, तथापि लोहलेख्यवृत्तीत्यस्य वैयर्थ्यात् तत्परित्यागे चाऽन्यतरासिद्धत्वात् । इदमुपलक्षणं पृथिवीत्वाभावे साध्ये पृथिवीपरमाणावेव व्यभिचार: पार्थिवत्वाभावे साध्ये पूर्वोक्त्तक्रमेण पार्थिवत्वसिद्धौ बाध इत्यपि ध्येयम् [३] ।