पृष्ठम्:न्यायलीलावती.djvu/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
न्यायलीलावती


 भाष्ये संहारविधिरुक्तः स (च) नास्ति प्रमाणाभावादित्येके ।


न्यायलीलावतीकण्ठाभरणम्

 द्रव्यचतुष्टयनिरूपणानन्तरं भाष्ये संहारावीधिरुक्तः, तयैव सङ्गत्या तमवतारयति - भाष्य इति । 'संहारविधिः' प्रलयप्रकारः। संहाराभिधानान्तरं सृष्टेरपि भाष्येऽभिधानात् संहारपदमत्रावान्तरप्रलयपरम् । तत्र विप्रतिपत्तयः - गुणाधारः कालः कार्य्यद्रव्यानाधारो न वा, द्रव्यप्रागभावः कार्य्यद्रव्यासहवृत्तिर्न वा, कार्य्यद्रव्यत्वं स्वाधिकरणानधिकरणकालवृत्तिर्न वा । स च नास्तीति । काले कार्य्यद्रव्यानाधारत्वं नास्तीत्य र्थः । प्रमाणमाशङ्कय तदभावाभासीकरणा-

न्यायलीलावतीप्रकाशः

 'संहारविधिः' प्रलयप्रकार: । संहारश्च कार्याधिकरणत्वे सति कार्यद्रव्यानधिकरणकालत्वम् । तत्र कालकपालान्यावृत्तिप्रागभावप्र-

न्यायलीलावती प्रकाशविवृतिः

 संहारविधिर्नास्त्येव तत्प्रतिपादकागमस्य सिद्धार्थत्वादत आह प्रकार इति । संहारोनाशस्तन्मात्रप्रकारः प्रसिद्ध एवेति संहारपदस्य विशेषपरता माह- कार्येति । इदं च संहारत्वमित्यवधेयम् । महाप्रलयेऽतिव्यातिवारणाय सत्यन्तम् । यद्यपि मूलकृता महाप्रलयो नाङ्गीक्रियते तथापि प्रवृत्तिनिमित्तनिर्वचनमिदं तत्त्वं च निरुक्तस्यैव । तस्यैव पदजन्यप्रतीतिप्रकारत्वात् । महाप्रलयाभ्युपगन्तृमतेनैवेदमिति केचित् । सृष्टिकालेऽतिव्य प्राप्तिवारणायाग्रिमदलम् । तत्रापि दलयोः परस्पराविरोधवारणाय द्रव्यपदम् । न च महाप्रलयाव्यवहितकालातिव्याप्तिः सन्त्यन्तस्य कार्यद्रव्यप्रागभावाधिकरणत्वार्थकत्वात् । मिश्रास्तु कालपदस्य कालोपाधिमात्रपरत्वे प्रलयघटकक्षण एवातिव्याप्तिः, न हि सोऽपि प्रलयः, दिनघटकदण्डादेरपि दिनत्वापत्तेः । तथा च कालपदं ब्रह्मवर्षशतावच्छिन्नकालोपाधिपरं वाच्यमत एव च न कालपदवैयर्थ्यम् । एवं च न महाप्रलयाव्यवबहितकालातिव्याप्तिरिति वदन्ति । अत्र च कार्याधिकरणत्वपदवैयर्थ्यमिति तत्पदसाहित्येनैव कालपदस्य निरुक्तार्थकत्वमित्यवधेयम् ।

 वृत्तप्रलयविचाराङ्गसंशयमाह -- कालेति । अत्र च पक्षविशेषणमा-