पृष्ठम्:न्यायलीलावती.djvu/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


तथा हि विश्वसन्तानोऽयं दृश्य सन्तानशून्यैः समवायिभिरारब्धः


न्यायलीलावतीकण्ठाभरणम्

याह --- तथा हीति । विश्व: सन्तानः कार्यकारणप्रवाहो यत्रेति वहु-

न्यायलीलावतीप्रकाशः

तियोग्ययं घटः कार्यद्रव्यानाधारवृत्तिप्रागभावप्रतियोगी न वेति संशयः । विश्वसन्तानोऽयमिति । कार्यकारणोभयवृत्तिकार्यमात्रवृत्तिधर्भवत्वं सन्तानत्वम् । तञ्च ह्यणुकाद्यन्त्यावय विपर्यन्तमविशिष्टं दृइयशून्यत्वं परमाणोः सदैवेति सन्तानेन विशेषितम् तेन दृश्यसन्ता-

न्यायलीलावतीप्रकाशविवृतिः

काशादिवृत्तिप्रागभावप्रतियोगितयाऽर्थान्तरं मा भूदिति बाधस्फोरणाय तत्र च कालपदं साधारणाधिकरणपरमतो नासिद्धिः पक्षविशेषणस्य । न चैवं दिशैवार्थान्तरं तादृशसमयासिद्धौ दिशोऽपि कार्यद्रव्यानधिकरणत्वाभावात् । न हीदानीं सृष्टिकालान्तरे वा कोऽपि दिक्प्रदेशः कार्यद्रव्यानधिकरणम् | बाघवारणाय कार्यपदं द्रव्यपदं च । आकाशवृत्त्यत्यन्ताभावप्रतियोगित्वमादाय सिद्धसाधनवारणाय प्रागभावपदम् । अनधिकरणत्वं चाधिकरणभिन्नत्वमतो न कपालवृत्तिप्रागभावप्रतियोगितयाऽर्थान्तरम् । अन्वयव्यतिरेकयोश्च प्रसिद्धिः शब्दे नित्यवर्गे चेति सङ्क्षेपः ।

 कार्योति । कार्यकारणोभयवृत्तिधर्मवत्त्वं नित्यस्यापीति तत्पक्षतायां बाघ इति कार्य मात्रवृत्तीत्युक्तम् । कार्यमात्रवृत्तिधर्मवत्वमिति कृते एव तत्पस्यापि एतत्पटत्वेन सन्तानतायां सिद्ध साधनमतः प्रथमदलम् । भवति च कार्यद्रव्यत्वं वह्नित्वं च तादृशो धर्म इति पक्षदृष्टान्तयोर्हेतुमत्त्वम्, पक्षपक्षतावच्छेदकत्वं च । यद्यपि कार्यद्रव्यत्वमादायापि पटस्य पक्षतयाऽशंतः सिद्धसाधनतादवस्थ्यम्, तथापि निरुक्तसन्तानत्वपर्थ्याप्त्यधिकरणे यथोक्तसाध्यसाधनमिति पटस्यातथात्वान्नोक्तदोषः । ध्वंसस्यापि निरुक्त सन्तानत्वाधिकरणतया बाघ इति सन्ताने विशेषणं विश्वपदं च द्रव्यपरम् । तेन द्रव्यत्वावच्छिन्न सन्तानपक्षतालाभः । न चैवं विश्वशब्देनेत्यादिपक्षविकल्पानवकाशः, यथाश्रुतपरत्वात् । द्रव्यसन्तानत्वं च हेतुरतो न ध्वंससन्ताने व्यभिचारः । उक्तविवक्षया यादशपक्षलाभस्तमाह - तच्चेति । सदैवेति । व्द्यणुकोपादा- .