पृष्ठम्:न्यायलीलावती.djvu/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
न्यायलीलावती


सन्तानत्वादारणेय सन्तानवदित्यत्र विश्वशब्देन ब्रह्माण्डपक्षीकरणे चतुर्महाभूतसन्तानावासस्य तस्यासिद्धावाश्रयासिद्धिः। कार्य[स-


न्यायलीलावतीकण्ठाभरणम्

व्रीहिमाश्रित्याह – ब्रह्माण्डेति । कर्म्मधारयमाश्रित्याह---कार्यमात्रेति । कार्य्यकारणोभयवृत्तित्वे सति कार्य्यमात्रवृत्तित्वं सन्तानत्वम् ।परमाणूनां दृश्यसन्तानशून्यत्वं यद्यपि सार्वदिकं तथापि तत्कार्यशुन्यत्वमात्रमभिमतम् । आरणेयेति । अरणिप्रभवो वह्निराकस्मिको न तदा व्घकादिरस्तीति दृष्टान्तता । ब्रह्माण्ड एव न प्रमाणमित्यत

न्यायलीलावती प्रकाशः

नशून्यैः परमाणुभिरारम्भः सिध्यति । यद्यप्यनादित्वात्सन्तानस्याद्यत्वमसिद्धं एतत्सर्ग सम्बन्धि सन्तानविशेषश्चासिद्ध एव तथापि स्पष्टत्वात्तदुपेक्ष्य दूषणान्तरमाह - ब्रह्माण्डेति ! न चागमसिद्धं ब्रह्मा-

न्यायलीलावतीप्रकाशविवृतिः

नकालेऽपीत्यर्थः । तथा च तादृशैः परमाणुभिः परम्परयारम्भे ह्यणुकादीनां (न ? ) प्रलयसिद्धिरिति सन्तानविशेषणमिति भावः । यद्यपि दृश्यसन्तानशून्यत्वमपि परमाणोः सदैवेति प्र ( ल ? ) यासिद्धितावस्थ्यम्, तथापि दृश्यं सन्तानं यस्य तद् द्यणुकं तच्छ्रन्यैः परमाणुभिरारम्भः सिद्ध्यति । एतेन यत्पर्यवसन्नं साध्यं तदाह--- तेनेति । एतेन दृश्यत्वमविवक्षितं सन्तानशून्य परमाण्यारभ्यत्वमेव साध्यमिति ग्रन्थार्थ इति परास्तम्, यथाश्रुतेनैवोपपत्तेः । क्वचिन्न सदैवेतीन्यनन्तरं दृश्यत्वमविवक्षितमिति पाठस्तत्र साक्षात्परम्परासाधारणसन्तानशून्यैरित्येतावतैव समीहित सिद्धेरित्यभप्रायः । तत्र व्धणुकोपादानकालेऽपि त्र्यणुका दिशून्यत्वं परमाणोरिति दृश्यत्वविशेषणम् । तत्र दृश्यं सन्तानं यस्येति व्युत्पत्त्या व्घणुकशुन्यैरित्यर्थो लभ्यत इत्यर्थः । यद्यपीति । यद्यया (घ?) सन्तानत्वेन पक्षतेत्ययमनुक्त्तोपालम्भस्तथापि सन्तानत्वेन पक्षतायां खण्डावयविन्यायेनारब्धसन्ताने दृश्यसन्तानशून्यपरमाणारेन्यत्वं बाधितमित्यंशतो बाध इत्याद्यसन्तानत्वेन सर्गसम्बन्धि सन्तानत्वेन वा पक्षता वाच्या । तत्र च विकल्पात् दूषणाभिधानमित्यभिप्रायः । एतदिति ।