पृष्ठम्:न्यायलीलावती.djvu/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्तान] मात्रपक्षीकरणे क्रमारब्धदहनपवन सन्तानन्यायात् आरम्भे ऽपि प्रलयासिद्धेः सिद्धसाधनात् । एकदैवेति विशेषणे तेनैव


न्यायलीलावतीकण्ठाभरणम्

आह - चतुरिति । द्वितीये सिद्धसाधनमाह- क्रमेति । सर्वेषां व्घणुकादिक्रमेणैवारम्भात् दृश्य सन्तानशून्यपरमाण्वारभ्यत्वं सिद्धमेवेत्यर्थः । एकदैवेति । तथा च एकदा दृश्यसन्तानशून्यैः समवायिभिरारब्ध इति साध्ये क्रमारम्भे सिद्धसाधनं न भवतीत्यर्थः । तेनैवेति । क्र-

न्यायलीलावतीप्रकाशः

ण्डं तस्य सिद्धार्थतया मुख्यार्थपरत्वाभावात् । अन्यथा प्रलयस्थापि तत एव सिद्धेरनुमानवैयर्थ्यात् । साध्यमपि ब्रह्माण्डसन्तानशून्य परमाण्वारभ्यत्वमयुक्तं सन्तानाद्यारम्भकस्यैव सन्तानारम्भकत्वात् ब्रह्माण्डस्य चानादित्वात् । क्रमारब्धेति । क्रमेण तादृशपरमा. ण्वारभ्यत्वेऽप्येकदा तदसिद्धेर्न प्रलयसिद्धिरित्यर्थः । किञ्च कार्योत्पत्तेः प्राक्कार्यशून्यैरारभ्यत्वे साध्ये सिद्धसाधनं कार्यानधिकरणैरारभ्यत्वे च बाध इति भावः । एकदैवेति । विशेषण इति । साध्यस्येत्यर्थः । तेनैवेति । क्रमारब्धदहनादिनैवेत्यर्थः । एककार्योत्पादकाल स्य तदितरसकलकार्योत्पादकालेन व्याप्त्यसिद्धेरिति भावः ।

न्यायलीलावतीप्रकाशविवृतिः

प्रलयस्याद्याप्यसिद्धेदीति भावः । सन्तानादीति । आदिः प्रथमः । न चैकस्मिन्नादौ ब्रह्माण्ड आदि प्रथमोऽस्तीति सन्तानाप्रसिघ्घा साध्याप्रसिद्धिरिति मिश्राः । तत्रादिमत एव सन्तानत्वादित्येव प्रकृतोपपत्तावारम्भकान्तर्भवश्चिन्त्य इति केचित् । तदयुक्तं यथोक्त्तविशेषणविशेष्यभावे दोषाभावात् । केचित्तु सन्तानादियेणुकं तदारम्भकस्येव सन्तानारम्भकतया प्रकृते ब्रह्माण्डस्यानादितया तदारम्भकड्यणुका सिद्धेः सन्तानाप्रसिद्या साध्याप्रसिद्धिरिति भाव इत्याहुः । कार्य्यानधिकरणैः कार्य्याधिकरणभिन्नै रित्यर्थः । ननु कार्याणां क्रमावभो ( रम्भो?) नास्त्येवेति कुत्र व्यभिचार इत्यत आह- एककार्येति । इत्यर्थ इति तात्पर्यार्थः । किं यदै कस्येत्यादिप्रथमविकल्पेऽपि शब्देनान्यसमुच्चयो द्वितीयविकल्पे कालभेद इत्याशयः । यथा