पृष्ठम्:न्यायलीलावती.djvu/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
म्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


परमाणुत्वात् दीपारम्भकपरमाणुवदित्यादि प्रतिक्षिप्तम् । बालवृद्धतरुण [१] देहसन्तानवदारम्भस्वीकारात् । न च तत्स्थापकादृष्टनाशादेव तन्नाश इति वाच्यम् तस्यापि प्रवाहित्वेनैकफलोपभोगेऽपि देहान्तरारम्भकादृष्टवन्नाशानुपपत्तेः । न च ह्सदर्शनातदनुमानं, दिनरात्रिह्सेनैव व्यभिचारात् । चतुर्युगपरिवर्त-


न्यायलीलावतीकण्ठाभरणम्

द्धत्वमेवेति भावः । सिद्धसाधनमध्ये ते नेत्यतिदिष्टं स्फुटयति - बालेति । तत्तदवयवावापोद्वापाभ्यां क्रमिकनाशोत्पादसिद्धौ न प्रलयसिद्धिरित्यर्थ: । ननु ब्रह्माण्डारम्भकादृष्टनाशात् शरीरवत्तन्नाशोऽप्यावश्यक इत्याह—न चेति । एतद्ब्रह्माण्डावच्छेदेन भोगजनकानि भूयांसि सन्तन्यमानान्यदृष्टानि तत्र कतिपयादृष्टनाशेऽपि कतिपयादृष्टावस्थानात् ब्रह्माण्डावस्थितिः स्याद्देहवद्बालतरुणदशा पन्नेत्यर्थ: । 'प्रवाहित्वेन' सन्तन्यमानत्वेन । ननु जन्मसंस्कारविद्यास्वाध्यायादयोऽत्यन्तं हसिष्यन्ते हसमानत्वात् प्रदीपादिवदित्यनुमानात्तत्सिद्धि, न हि जन्मादीनामत्यन्तहासकालादन्यः प्रलयो नामेत्यत आह -- न चेति । पौषमासीय दिनस्य ह्समानत्वेऽपि नात्यन्तं ह्सतीति व्यभिचार इत्यर्थः । ननु दिनरात्रिहासस्यापि पक्षत्वं पक्षसमत्वं वा । तथा च न तत्र व्यभिचार इत्यत आह - चतुर्यु-

न्यायलीलावतीप्रकाशः

वृणोति - बालतरुणेति । तत्तदवयवोपगमापगमाभ्यां क्रमेण नाश्योत्पादेऽपि न प्रलयसिद्धिरित्यर्थः । तस्यापीति | अदृष्टस्यापि प्रवाहित्वेन क्रमिकत्वादेकस्य भोगेन नाशेऽप्यपरापरस्यादृष्टस्य नाशानुत्पत्तेरित्यर्थः । हासमात्रमनुमीयते, एकदा हासो वा अत्यन्तहासो वा । आद्ये सिद्धसाधनं द्वितीये त्वप्रसिद्धिः । तृतीये त्वाह - दिनेति । ननु दिनरात्रिहासस्यापि पक्षत्वात् पक्षसमत्वाद्वा कथं तेनैव व्यभिचार

न्यायलीलावतीप्रकाशविवृतिः

तत्तदवयवेति । एतच्च सन्तानाविवक्षायां दूषणम् । मूलदूषणं त्वाश्रयासिद्धिरेव । एकदेति । एकदा सर्बहास इत्यर्थः असिद्धिरप्रसिद्धि


  1. बालतरुणवृ० ।