पृष्ठम्:न्यायलीलावती.djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
न्यायलीलावती


स्तु स्यादृत्वयनवत् । न च सन्तानाः कदाचित्सहोच्छिद्यन्ते [१] सन्तानत्वात् [ सम्प्रतिपन्नसन्तानवत् ] इति वाच्यम्, क्रमोच्छि-


न्यायलीलावतीकण्ठाभरणम्

गेति । कलियुगे हासे सत्यपि सत्ययुगादौ पुनर्वृद्धिसम्भावनयाऽत्यन्तह्रसाभावात् । ननु युगान्तर एवं हि प्रलयो न हि मयाऽत्र महाप्रलयः साध्यतेऽत आह - ऋत्वयनेति । युगान्तेऽपि सकलका र्याणामेककालिकध्वंसानभ्युपगमादित्यर्थः । यदि तु जन्मसंस्कारादिहासदृष्टान्तेन सम्प्रदायस्य वेदस्यात्यन्तिको ह्रसोऽनुमेयत्वेनाभिमतस्तदापि तुल्योऽर्थः । सम्भावितोत्कर्षहासस्य च न साध्यत्वं जन्मसंस्कारादौ दृष्टान्ते साध्यानिश्चयादित्यर्थः । ननु सर्वसन्तानानामत्रोच्छेदे साध्ये सिद्ध्यत्येकः प्रलय इत्यत आह -न

न्यायलीलावतीप्रकाशः

इत्यत आह -युगेति । इसमानतामात्रस्य विवक्षितत्वे इदानीन्तनपौषमासदिनहासकाष्ठया व्यभिचारः । न चासम्भावितोत्कर्षो हासो विवक्षितः, जन्मविद्यादिदृष्टान्तस्य साध्यचै कल्यापत्तेः, युगपरिवर्त्तक्रमेणाप्युतकर्षसम्भवादित्यर्थः । ननुः सकलसन्तानं पक्षीकृ त्य नैकदोच्छेदः साध्यो येन व्यभिचारः स्यात्, किन्त्वेककालीन त्वविशिष्टं सन्तानं पक्षीकृत्य । तथा च पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य सिद्ध्यतीत्यनुमाने क्लप्वात्वादेकदोच्छेदः

न्यायलीलावतीप्रकाशविवृतिः

रित्यर्थ: । 'विवक्षितत्वे' हेतुत्वेनेति शेषः । व्यभिचार इति । शतवर्षमध्यवर्त्त्युत्कर्षप्रागभावासमानाधिकरणह्नसस्य साध्यत्वादिति भावः । तेन न पूर्वोक्तपक्षसमत्वावकाशः । जन्मविद्येति । “जन्मसंस्कारे” त्यादिकारिकायां [२] च तस्य दृष्टान्तत्वश्रवणादिति भावः । वस्तुतो मूलफक्विकाया अन्यथावतारस्तात्पर्यं च तथा । साध्यवैकल्येति । साध्यतेऽनेनेति साध्यम्, साधनेमेवात्रोक्तम् । ननु युगपरिवर्त्तकाले प्रलयः स्यात् तत्तत्पदार्थोच्छेदरूपत्वात्परिवर्त्तस्येत्यत आह -- युगेति । किञ्चित्पदार्थोच्छेदेऽपि न सर्व्वपदार्थोच्छेद इति नैतावता


  1. व समुच्छिद्यन्ते ।
  2. न्यायकुसुमावलौ २ । ३ ।