पृष्ठम्:न्यायलीलावती.djvu/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


न्नानां सन्तानानां कदाचिदपि तदभावेन व्यभिचारात्, विपरीतनिश्चयाच । ब्रह्मवर्षशतमिति गणितभेदगम्यः कालो महाभूतसङ्घातवान् [१] कालत्वात् इदानीमिव । तत्समयवर्त्तिनश्च वर्णाः सजातिसन्ततिजन्मानो वर्णत्वात् अधुनातनवर्णवत् । न


न्यायलीलावतकिण्ठाभरणम्

चेति । येषां सन्तानानां क्रमेणोच्छदः प्रमितस्तत्र व्यभिचार इत्यर्थः । प्रलये शङ्कितानामनुमानानां सत्प्रतिपक्षितत्वमप्याह - विपरीतेति । "ब्राह्नेण वर्षेण ( मानेन ?) वर्षशतान्ते वर्त्तमानस्ये" त्यादिना भाष्येण [२]प्रलयत्वेन यः कालो विवक्षितः स महाभूतसङ्घातवानित्यर्थः । तथा च तस्य कार्य्यद्रव्याधारत्वे कुतः प्रलय इति भावः । परमाणुसत्त्वेन सिद्धसाधनमाशङ्कय महाभूतेत्युक्तम्, आकाशवत्तया सिद्धसाधनमाशङ्कय सङ्घातवानित्युक्तम् । तत्समयवर्त्तिन इति । आद्यसृष्टिसमयवर्त्तिन इत्यर्थः । न च प्रलयासिद्धावुभयत्राश्रयासिद्धि: कालत्वं कार्यद्रव्यानधिकरणानधिकरणं परत्वासमवायिकारणसंयोगाधारत्वे सति नित्यत्वात् दिग्वत् । ब्राह्मणत्वं ब्राह्मणजन्यत्वव्याप्तं तत्कारणकवृत्त्य साधारणधर्म्मत्वात् । यो यत्कारणकवृत्तिरसाधारणो धर्मः स ( त ? ) ज्जन्यत्वव्याप्य इति सामान्यव्याप्तेरनुमानमिति भावः । ननु वह्नेर्वह्निपूर्वकत्वेऽपि अरणिप्रभवस्य यथा न वह्निप्रभवत्वं तथा ब्राह्मणोऽपि स्यादित्यत आह - न चेति । अत्रे दानीन्तनब्राह्मणत्वमुपाधित्वेन पराभिमतम्, तच्च न सम्भवति सामान्यव्याप्तौ विशेषस्यानुपाधित्वात् । विशेषनिष्ठत्वं विशेषधर्म्मावच्छेद्यत्वं पक्षेतरत्वं वा वहौ व्यभिचारनिश्चयेन वह्निपूर्वकत्वं

न्यायलीलावतीप्रकाशः

सेत्स्यतीत्यत आह - विपरीतेति । तमेवोपपादयति – ब्रह्मवर्षेति । न च सिद्ध्यसिद्धिव्याघातः कालत्वस्य कार्यद्रव्यवत्त्वव्याप्यत्वेन ब्राह्मणत्वस्य च ब्राह्मण पूर्वकत्वव्याप्यत्वेन साधनात् । न चेति । यथा ज्वलनं

न्यायलीलावती प्रकाशविवृतिः

प्रलयसिद्धिरिति तात्पर्यम् । कालत्वस्येति । कालोपाधित्वं कार्यद्रव्य-


  1. संहतिमान् ।
  2. प्रशस्तपादभाष्यं सृष्टिसंहारविधिनिरूपणम् ।