पृष्ठम्:न्यायलीलावती.djvu/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
न्यायलीलावती


चारणि[मणि] प्रभवज्वलनन्यायः, असति बाधके निश्चितहेतुफलाभावस्य विशेष [१]निष्ठत्वविरोधात् । अन्यथेन्धनधूमादावपि तथात्वापत्तेः । मैवम् । सर्व एव परमाणवः कदाचित्सम -


न्याय लीलावती कण्ठाभरणम्

न वह्नित्वावच्छेद्यं किन्तु तदवान्तरजात्यवच्छेद्यमिति भावः । सामान्यव्याप्तौ विशेषस्योपाधित्वे विपक्षदण्डमाह —–अन्यथेति । धूमादावपि धूमत्वादिना वह्निव्याप्यत्वं नावच्छिद्येत धूमादिविशेषस्योपाधित्वसम्भवादित्यर्थः । सर्व्व एवेति । सर्वेषामेकदा समग्रोपादेय प्रबन्धशून्यत्वमेव प्रलय इत्यर्थः | नष्टपवनारम्भकपरमाणूनां पक्षत्ववहिर्भावेऽन्तर्भावे वा नांशतः सिद्धसाधन विपक्षवाधकात् पक्षतावच्छेदकनानात्व एव तत्सम्भवात् । यथाऽनित्ये वाङ्मनस इत्यत्र एकदा समग्रोपादेयप्रबन्धशून्यत्वस्य सिसाधयिषितत्वेन उद्देश्यप्रतीतेः पूर्वमनुदयाद्वा नांशतः सिद्धसाधनम् । ननु

न्यायलीलावतीप्रकाशः

विनाऽप्यरणेर्ज्वलनोत्पत्तिः, तथा ब्राह्मणं विनापि विशिष्टादृष्टोपगृहीतपरमाणोर्ब्राह्मणः स्यादिति नेत्यर्थः । 'विशेषनिष्ठत्वं' विवादपद्भिन्नविषयत्वमित्यर्थः । इन्धनेति । इन्धनमग्नर्हेतु: धूमः फलमित्यर्थः । सर्व एवेति । नन्वेककालीन समग्रोपादेयप्रबन्धशुन्यत्वस्याप्रसिद्धेः परमाणूनां समग्रोपादेय प्रबन्धशून्यत्वमात्रं साध्यम् । तथा च क्रमेण तादृशसाध्यसिद्धौ सिद्धसाधनम्, पवनपरमाणोश्च पक्षवेंऽशतः सिद्धसाधनम् । अपक्षत्वे च तस्यैव कार्यद्रव्यवत्वे प्रलयासिद्धिः ।

 अथ परमाणुः कार्यद्रव्य समान कालिक परमाणु क्रियातिरिक्तक्रिया.

न्यायलीलावतीप्रकाशविवृतिः

वत्त्वव्याप्यं कालोपाधिमात्रवृत्तित्वात्, इदानीन्तनकालोपाधिस्ववत् । ब्राह्मणत्वं ब्राह्मण पूर्वकत्वव्याप्यं ब्राह्मणमात्रवृत्तिधर्म्मत्वादेत ब्राह्मणत्ववदित्यनुमानाभ्यामिति भावः । विवादेति । सर्गाद्यकालीन ब्राह्मणान्यब्राह्मणविषयत्वमित्यर्थः । इन्धनं न धूमहेतुरत आह–इन्धनमिति ।

 अथेति । अयं च विशिष्टाभावः कार्य्यद्रव्यासमानकालीन


  1. ० षनियतत्वचि० ।