पृष्ठम्:न्यायलीलावती.djvu/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


ग्रोपादेयमबन्धशून्या आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् । न च किञ्चिदेतादृशं न भविष्यतीत्यनेकान्तता पवनत्वादेर्द-


न्यायलीलावतीकण्ठाभरणम्

विपक्षवाधक तर्का भावान्नैतदित्यत आह- न चेति । विपक्षबाधकाभावेन ह्युधिरुन्नेयः स च यदि नष्टपवनारम्भकपरमाणुत्वं तदा नष्टदहनारम्भकपरमाणुषु साध्याव्यापकत्वमेवं दहनारम्भकपरमाणुत्व स्योपाधित्वे पवनारम्भकपरमाणुषु साध्याव्यापकत्वमित्यर्थः ।

न्यायलीलावतीप्रकाशः

वान् मूर्त्तत्वादित्यवान्तरप्रलये, महाप्रलये तु परमाणु: कार्यसमानकालिकैतद्ध्त्तिध्वंसान्यध्वंसवान् मूर्त्तत्वादिति मानमित्युच्यते । तत्र एतदन्यगुणवत्वस्योभयत्राप्युपाधित्वात् । अथैते परभाणवः कार्यद्रव्यानधिकरणवृत्तिकार्यवन्तः नित्यद्रव्यत्वात् आकाशवदिति

न्यायलीलावतीप्रकाशविवृतिः

क्रियावत्वेन परमाणुक्रियाभिन्नक्रियावत्वेन वा । तत्र चरमे बाधात् प्रथममादाय पर्य्यवस्यति । कार्यपदानुपादाने बाधः व्योमादेः प्रलयेऽपि विद्यमानत्वात् । द्रव्यपदानुपादानेऽपि नावान्तरप्रलयसिद्धिस्तदा गुणादेर्विद्यमानत्वात्, इत्युभयमुपान्तम् । दृष्टान्तलाभार्थे परमाण्विति । महाप्रलये नार्थान्तरवारणाय धर्म्ममात्रमपहाय क्रियागर्भं साध्यम् । स्थूलकालोपाध्यवच्छिन्नक्रियावत्वं साध्यमतो न प्रलयाव्यवहितकालेनार्थान्तरम् । 'मूर्त्तत्वात्' क्रियावत्वादन्यथा निष्क्रियविनष्ठे व्यभिचारात्, अन्यमतमाश्रित्याह- महाप्रलये त्विति । अत्र ध्वंसग्रहणं तदा सर्वध्वंससत्त्वप्रदर्शनार्थम् । प्रकृते तु सामान्यतो धर्ममात्र परत्वेनापि सामञ्जस्यात् । हेतुस्तद्ध्वंसवत्त्व मन्यथाश्रयनाशमात्रना श्यगुणादिभिर्व्यभिचारापत्तेः । मिश्रास्तु ध्वंसागर्भमेव साध्यं नित्येनापि कार्यसमानकालीनत्वविरहिणा प्रलयसिद्धेः । मूर्तत्वादिति केवलान्वयिधर्मोपलक्षकमन्यथा व्यर्थत्वापसेरित्याहुः ।

 एतदिति । एतद्भुणान्यगुणवत्वस्येत्यर्थः । अग्रिमगुणपदं च सामान्यादिकमादाय साधनव्यापकत्वपरीहाराय । यद्यप्येवं पर्व्वतवृत्तिगुणान्यगु. णवत्त्वस्य प्रसिद्धानुमानेऽप्युपाधितापत्तिः, साध्यव्यापक ग्राहकाभाव श्चतुल्य एव तथापि हेतोरप्रयोजकत्वे तात्पर्यम् । अथैत इति । साध्ये द्विती-