पृष्ठम्:न्यायलीलावती.djvu/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
न्यायलीलावती


न्यायलीलावतीप्रकाशः

मानम्‌ तन्न, कार्यद्वश्यानधिकरणस्वस्यो पाधित्वाव । अ्रत्राहुः। एककालीना इतिपश्चविकशेषणादेककालीनत्वं साध्यस्य सिध्यति सर्वत्र पक्षतावच्छेकावच्छिन्नस्य सध्यस्यानुमानात्‌ सिद्धेः। न चांरतः सिद्धसाधनं पक्चषधर्मताबलहेश्यप्रतीतेरसिद्धेः । न च पश्चेकदेशस्य द्दष्टान्तत्वाभावः साध्यवत्तया निध्ितस्यैव तत्त्वात् पक्षान्यत्वे सतीत्यस्य वैयर्थ्यात्‌ । तथापि न तस्य पक्षत्वं साभ्यसन्देहसिसाधयिषयोरभावादित्यपि न, येन रूपेण साध्यं निक्ष्चितं तेन तयोरभावेऽपि सामान्येन तयोः खत्त्वात्‌ । नन कार्यद्रव्याधिकरणकालमात्रवृत्तित्वमत्रोपाधिः ।

न्यायलीलावतीप्रकाशविवृतिः

यकार्य्यपदं भावकार्य्यपरमतो न महाप्रखयेनाऽथौन्तरम्‌। तत्र स्थूलकालावच्छिन्नत्वं पृर्व्ववदेव विशेषणम्‌ । अद्विष्ठत्वं च विशेषणमतो न परमाण्वाकाशसंयोगमादायाऽर्थान्तरम्‌ । अत्र च काय्वंद्रभ्यानधिकरणल्वं परमाणोबोधितमिति ताद्दशलोपाधि्तिद्धिः । हेतौ नित्यपदं कपाले च द्रव्यपद नित्यशुणे व्यभिचारवारकम्‌ । कार्य्य्येति । अत्र कार्य्यपदं समवायावच्छिन्नाधिकरणतालाभाय। तेनाकाशादौ न साध्यात्यापकत्वम्‌ । सव्वैत्रेति । न च पक्चषतावच्छेदकसाभ्यसामाधिकरण्यमात्रमनुमितिविषथ इति वाच्यम्‌, एकव्रद्वयं विथिष्टवैशिष्ठ्यं चेति शब्दतात्पर्य्यवरान्नियमवदचुभित्साक्नाऽदुमितावपि नियमस भ्भवादिति भावः(?) । उद्देश्येति । इदं च समधिसौकर्य्यात्‌ वस्तुतस्तव्‌न्यपक्षतायामपि ताद्दशवायुपरमाणुकालीनत्वस्य पक्षतया एककाले सर्ब्वपरम।णुनां ताद्रूप्यसिघ्घा प्रलयसिद्धिरिति । पक्षान्यत्व इति । अभेदानुमाने पश्चस्यैव द्द्दष्टान्तत्वादिति भावः । वस्तुतः पक्षत्वस्य केवलान्वायितया तदन्यत्वस्याप्रसिघ्द्या पक्षतावच्छेदकविरहवत्त्वमेव प्रयोज्क वाच्यम्‌ । एवं च कालान्तरावच्छिन्नपरमाणोरेककालावच्छिन्नत्वाभावोऽस्स्येव न समुदायपर्याप्तस्य एककावच्छिन्नत्वस्य तदेकदेशे, परिसमाप्तेरत एवाच्चे(मे?)दानुमानेऽपि सङ्गतिरिति । येनेति । ` खमानप्रकारकत्वस्यैव विरोधे तब्त्रत्वादन्यथा पथ्वैतेऽपि घुमवत्त्वेन वह्निनिश्चयाद्‌ पक्षतानापत्तेरिति भावः । नलु कार्य्येति । अत्र कालपदमधिकरणमात्रपरमतो नोपाघिदातुर्म्मते काय्यंद्रद्यानधिक.-